अथाध्यापकधर्माः ।
तत्र यमः--
"सततं प्रातरुत्थाय कृतनित्यक्रियो गुरुः । |
मनुरपि--
"अध्यापयिष्यमाणस्तु यथाकालमतन्द्रितः । |
अध्यापयिष्यमाण इत्यत्र गुरुरिति शेषः । आरमेदित्यत्रान्तर्भावितो णिच् । तेन शिष्यमारमयेदित्यर्थो लभ्यते । अथवाऽऽरमेदिति यथाश्रुतमेव । अध्यापनान्निवर्तेतेत्यर्थः ।
स्मृतौ--
"एकः श्रोता दक्षिणतो निषीदेद्द्वौ वा भूयांसस्तु यथावकाशम्" इति । |
अस्यार्थः--एकः श्रोताऽध्येता दक्षिणत उपविशेदथवा द्वौ शिष्यौ । अथवा भूयांसो बहवः शिष्या यथावकाशमनियम उपवेशन इति ।
स्मृत्यन्तरे--
"आसने तु समासीन आचान्तः प्राङ्मुखो गुरुः । |
तत्रैव--
"अभ्यासार्थे द्रुतां वृत्तिं प्रयोगार्थे तु मध्यमाम् । |
अभ्यासार्थे वेदाभ्यासार्थे द्रुतां त्वरितां वृत्तिं जानीयात् । प्रयोगार्थे कर्मार्थे मन्त्रपाठे मध्यमां वृत्तिं जानीयात् । शिष्योपदेशार्थे शिष्याध्यापनार्थे विलम्बितां वृत्तिं जानीयादित्यर्थः ।
याज्ञवल्क्यः--
"कृतज्ञाद्रोहिमेधाविशुचिकल्पानसूयकाः । |
कृतमुपकारं जानन्तीति कृतज्ञाः । अद्रोहिणो द्रोहरहिताः । मेधाविनो धारणावन्तः । शुचयः शुद्धाः । कल्पा नीरोगाः । अनसूयका गुणिनां दोषानाविष्करणशीलाः । शक्ताः शुश्रूषायाम् । आप्ता अप्रतारकाः । ज्ञानदा विद्याप्रदाः । वित्तदा अर्पणपूर्वमर्थदातारः । धर्मग्रहणमर्थोपलक्षणम् । नन्वर्थतोऽप्यध्याप्य इति न संगच्छते । भृताध्ययनभृतकाध्यापनयोः प्रायश्चित्तस्मरणात् ।
तथा च पराशरप्रायश्चित्तकाण्डे विष्णुः--
"भृतकाध्ययनं कृत्वा भृतकाध्यापिनस्तथा । |
मैवम् । भृतिसंकल्पपूर्वकमध्यापनं प्रतिषिद्धमितरस्य वृत्तिहेतुत्वेनाविरोधात् ।