पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३१०
[वेदशास्त्राद्यध्ययनमुहूर्तः]
भट्टगोपीनाथदीक्षितविरचिता--
(अध्ययनारम्भकाले क्षुतं न हानिकृत्)
 

अङ्गशास्त्रं भिषक्शास्त्रं चान्द्रेऽह्नि सततं लभेत् ।
क्षुद्रशास्त्रं कुलघ्नं च रणवादाग्निशस्त्रकम् ॥
अस्त्रशस्त्रप्रयोगं च कुजवारांशकोदये ।
योगशास्त्रं महातन्त्रमद्वैतं ब्रह्मनैष्ठिकम् ॥
गीतकाद्यं च नृत्यं च कामशास्त्रं च सोमजे ।
सर्ववेदान्षडङ्गानि जीववारे समारभेत् ॥
मङ्गलं नृत्यवादित्रं श्रीकामं श्रीप्रतिष्ठितम् ।
पूजाङ्गवेदवेदार्थमारभेच्छुक्रवासरे ॥
शुभं वाऽप्यशुभं वाऽपि न स्मरेच्छास्त्रमर्कजे ।
विद्यारम्भो यदि स्यात्तु मन्दवारांशकोदये ।
पुराणमपि नाशाय नराणां तु न संशयः" इति ॥

 कामशास्त्रं प्रसिद्धम् । महातन्त्रं मन्त्रशास्त्रम् । रोगघ्नं भिषक्शास्त्रम् । वैष्णवं विष्णुमन्त्रपूजादिप्रतिपादकम् । महातन्त्रशब्दो गोबलीवर्दन्यायेन वैष्णवातिरिक्तपरः । तथाशब्दः सूर्यवासरान्वयार्थः ।

"कामशास्त्रं मन्त्रशास्त्रं रविवारे समभ्यसेत्" ।

 इति वाक्यान्तरसंवादात् । अङ्गशास्त्रं सामुद्रिकम् । क्षुद्रशास्त्रं बौद्धादिशास्त्रम् । कुलघ्नमाभिचारिकशास्त्रम् । महातन्त्रत्वेन सूर्यवासरेऽभ्यासः प्राप्तः स एतस्मिन्नंशे न भवति । किं तु कुजवासर एतस्याभ्यासः कर्तव्य इति । रणशब्देन मल्लशास्त्रम् । अस्त्रशस्त्रप्रयोगस्याग्रे पृथगुपादानात् । वादो व्यवहारशास्त्रम् । अग्निशास्त्रमग्नियन्त्रनिर्माणादिशास्त्रम् । एतेन शिल्पं सर्वमुपलक्षणीयम् । योगशास्त्रं प्रसिद्धम् । महातन्त्रं सांख्यशास्त्रन्यायशास्त्रधर्मशास्त्रादि । अद्वैतं वेदान्तशास्त्रम् । ब्रह्मनैष्ठिकं यत्याश्रमधर्मप्रतिपादकम् । गीतकाद्यं नारदादिप्रणीतं संगीतशास्त्रम् । नृत्यं भरतप्रणीतम् । मङ्गलमलंकारादिशास्त्रम् । श्रीकामं श्रीप्रदायकम् ।

 अध्ययनारम्भकाले क्षुतं न हानिकृदित्युक्तं प्रतापमार्तण्डे ज्योतिर्निबन्धे च--

"भैषज्ये वाहनारोहे आसने शयनेऽशने ।
विद्यारम्भे बीजवापे क्षुतं हानिकरं नहि" इति ॥

इत्यध्ययनारम्भकालः ।