पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[उपनयनप्रकरणम्]
२३३
संस्काररत्नमाला ।
( गायत्रीमन्त्रार्थः, जपकर्तुर्नियमाश्च )
 

 आच्छादन आर्द्रवस्त्रनिषेधः स्मृत्यन्तरे--

"आच्छाद्याऽऽर्द्रेण वस्त्रेण करं यस्तु जपेद्यदि ।
निष्फलः स्यात्तस्य जपो देवता न प्रसीदति" इति ।

 व्यासः--

"मनःसंतोषणं शौचं मौनं मन्त्रार्थचिन्तनम् ।
अव्यग्रत्वमनिर्वेदो जपसंपत्तिहेतवः" इति ।

 मन्त्रार्थ उक्तो बृहत्पराशरेण--

"तच्छुद्धं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः ।
देवस्य सवितुर्भर्गो वरणीयं च धीमहि ।
तदस्माकं धियो यस्तु ब्रह्मत्वे च प्रचोदयात्" इति ।

 तत्सवितुर्जगत्कारणस्य श्रीसूर्यस्य वरेण्यं वरणीयम् । वृञ एण्यः । भर्गस्तेजः । अन्धकारभर्जनात् । "अव्यञ्जियुजिभृजिभ्यः कुश्च" इति भृजेरसुन् । धीमहि ध्यायेम । यो नो धियोऽस्माकं बुद्धीः प्रचोदयात्स्वरूपे प्रेरयेत्, प्रेरयतीत्यर्थः । इत्येवं गायत्रीमन्त्रार्थस्य चिन्तनं मनसाऽनुसंधानं कार्यम् । शब्दस्याप्येवम् । उत्तमं मानसं जाप्यमित्यनन्तरोदाहृतविश्वामित्रोक्तेः ।

 [१]बौधायनः--

"[२]नाभेरधस्तात्संस्पर्शं कर्मयुक्तो विवर्जयेत्" इति ।

 अत्रिः--

"न च[३] कामन्न च हसन्न पार्श्वमवलोकयन् ।
नापाश्रितो न जल्पंश्च न प्रावृतशिरास्तथा ॥
न पदा पादमाक्रम्य न चैव हि तथा करौ ।
न चासमाहितमना न च संश्रावयञ्जपेत्" इति ॥

 व्यासः--

"जपकाले न भाषेत व्रतहोमादिकेषु च ।
एतेष्वेवावसक्तस्तु यथा गच्छन्द्विजोत्तमः ॥
अभिवाद्य ततो विप्रं योगं क्षेमं च कीर्तयेत्" इति ।

 यथा गमनवेलायां तन्मनस्कः सन्नेव गच्छति तद्वज्जपादिष्वपि तन्मनस्क एव भवेदित्यर्थः । विप्रमभिवाद्य तेन विप्रेण योगं क्षेमं च कीर्तयेदित्यर्थः । अलब्धलाभो योगः । लब्धस्य रक्षणं क्षेमः ।


३०
 
  1. घ. ङ. बोधायनः ।
  2. नाभेरधस्तु संस्पर्शमिति क. पुस्तके शोधितः पाठः ।
  3. घ. ङ. चङ्क्राम ।