वाचिकस्यैकमेकं स्यादुपांशु शतमुच्यते । |
([१]मानसजपस्य फलमुक्तं नृसिंहपुराणे--मानसं जपं प्रकृत्य,
"अनेन देवता नित्यं स्तूयमाना प्रसीदति । |
स्मृत्यन्तरे--
"चतुर्विंशत्यक्षरां तु गायत्रीं प्रजपन्त्दृदि । |
अक्षरशब्दः स्वरेषु वर्तते । तत्र यद्यपि स्वरास्त्रयोविंशतिरेव गायत्रीमन्त्रे वर्तन्ते तथाऽपि ण्यमित्यत्र भावनया णियमिति स्वरद्वयं ज्ञेयम् ।
उक्तं च पिङ्गलेन--
"इयादिपूरणः" इति । |
पाद इत्यनुवर्तते । इयादिः पूरणो यस्य स इयादिपूरणः । आदिशब्देनोवादयो गृह्यन्ते । तत्रायमर्थः--यत्र गायत्र्यादौ छन्दसि पादस्याक्षरसंख्या न पूर्यते तत्रेयादिभिः सा पूरयितव्या । यथा तत्सवितुर्वरेणियं दिवं गच्छ सुवः पतेत्येवमादय इति हलायुधेन व्याख्यातम् ।
"घृणिरिति द्वे अक्षरे । सूर्य इति त्रीणि । आदित्य इति त्रीणि । एतद्वै सावित्रस्याष्टाक्षरं पद श्रियाऽभिषिक्तम्" ।
इति श्रुतिरपि साधिकाऽत्रेति ज्ञेयम् ।
जपे नियममाह शौनकः--
"कृत्वोत्तानौ करौ प्रातः सायं चाधोमुखौ ततः । |
स्मृत्यन्तरे--
"हस्तौ नाभिसमौ धृत्वा प्रातः संध्याजपं चरेत् । |
वृद्धमनुः--
"वस्त्रेणाऽऽच्छाद्य तु करं दक्षिणं यः सदा जपेत् । |
- ↑ धनुश्चिह्नान्तर्गतं क. पुस्तक एव ।