कथं तर्हि मार्जनमिति तत्राऽऽह स एव--
"नद्यां तीर्थे हृदे वाऽपि भाजने मृन्मयेऽपि वा । |
कृत्वेत्यनन्तरमुदकमिति शेषः ।
मृन्मयादिपात्रसद्भावे तु वामहस्तप्रतिषेधः--
"वामहस्ते जलं कृत्वा ये तु संध्यामुपासते । |
भाजन इत्यादिकं गृहसंध्याविषयं न तु नद्यादिसंनिधिकर्तव्यसंध्याविषयम् । पूर्वमार्जनानन्तरमापो वा इदमित्यनुवाकेनाभिमन्त्रणं कुर्वन्ति शिष्टाः । वस्तुतस्तु सर्वात्मकत्वेनाभिध्यानमात्रमनेन कार्यम् ।
ततः समन्त्रमुदकपानं पुनर्मार्जनं च कुर्यात् ।
तत्राऽऽह बौधायनः--
"अथातः संध्योपासनविधिं व्याख्यास्यामस्तीर्थं गत्वा प्रयतोऽभिषिक्तः प्रक्षालितपाणिपादोऽप आचम्याग्निश्च मा मन्युश्चेति सायमपः पीत्वा सूर्यश्च मा मन्युश्चेति प्रातः सपवित्रेण पाणिना सावित्र्या सुरभिमत्याऽब्लिङ्गाभिर्वारुणीभिर्हिरण्यवर्णाभिः पावमानीभिर्व्याहृतिभिरन्यैश्च पवित्रैरात्मानं प्रोक्ष्य प्रयतो भवति" इति ।
भारद्वाजः--
"सायमग्निश्च मेत्युक्त्वा प्रातः सूर्येत्यपः पिबेत् । |
प्रातः सूर्येत्यत्राप्युक्त्वेत्यस्यान्वयः । सूर्य इतीत्यपेक्षिते सूर्येतीति संधिश्छान्दसः ।
कात्यायनोऽपि--
"शिरसो मार्जनं कुर्यात्कुशैः सोदकबिन्दुभिः । |
मार्जनानन्तरं प्रजापतिः--
"उद्धृत्य दक्षिणे हस्ते जलं गोकर्णवत्कृते । |