अनुकल्पमाह मनुः--
"मुञ्जाभावे तु कर्तव्या कुशाश्मन्तकबल्वजैः । |
अत्राऽऽदिशब्दलोपो द्रष्टव्यः । तेनेत्थं वाक्यं भवति--मुञ्जाद्यभाव इति । ग्रन्थयश्च प्रवरसंख्यया । एकप्रवरस्यैको ग्रन्थिः, त्रिप्रवरस्य त्रयः, पञ्चप्रवरस्य पञ्चेति वृद्धाः ।
दण्डो गृह्ये--
"बैल्वं पालाशं वा दण्डं ब्राह्मणस्य नैयग्रोध |
धर्मसूत्रेऽपि--
"बैल्वः पालाशो वा दण्डो ब्राह्मणस्य नैयग्रोधः स्कन्धजोऽवाङग्रो राजन्यस्य बादर औदुम्बरो वा वैश्यस्य वार्क्षो दण्ड इत्यवर्णसंयोगेनैक उपदिशन्ति" इति ।
नैयग्रोधो वटमयः, स चस्कन्धः शाखाविशेषस्तस्माज्जातः । अवाङवाचीनमग्रं यस्यैतादृशश्च । बादरो बदरवृक्षजः । वार्क्षो वृक्षमात्रजोऽनियतवृक्षजः, एतादृशो दण्डः सर्वेषां वर्णानां भवतीत्येक आचार्या उपदिशन्तीत्यर्थः ।
मनुरपि--
"ब्राह्मणे बैल्वपालाशौ क्षत्रिये वटखादिरौ । |
अत्र सत्यपि द्वंद्वनिर्देशे बैल्वः पालाशो वा दण्ड इति धर्मसूत्रे विकल्पोक्तेरविवक्षितं साहित्यं ज्ञेयम् ।
बौधायनधर्मसूत्रे--
"मूर्धललाटनासाग्रप्रमाणो यज्ञियस्य वृक्षस्य दण्डः" इति । |
ब्राह्मणक्षत्रियवैश्यानां क्रमेण दण्डप्रमाणानीत्यर्थः । एषां क्रमेणेति पूर्वत्रोपक्रमात् । अत्र मूर्धादिप्रमाणानि संस्कार्यस्य ग्राह्याणि ।
दण्डलक्षणान्याह मनुः--
"ऋजवस्ते तु सर्वे स्युरव्रणाः सौम्यदर्शनाः । |
ऋजवः सरलाः । अव्रणा अच्छिद्राः । सौम्यदर्शना अकण्टकिताद्याः । अग्निदूषिता अग्निदग्धाः ।