चतुर्विंशाङ्गुल एकः । अष्टाङ्गुलो द्वितीयः । षोडशाङ्गुलस्तृतीयः । एवं त्रिभिः खण्डैरष्टाचत्वारिंशदङ्गुलं(ल) परिमण्डलमजिनं धार्यमित्यर्थः । अत्र परिषीवणार्थं किंचिदधिकं ग्राह्यम् । अन्यथाऽष्टाचत्वारिंशदङ्गुलमजिनं धार्यमित्यनेन विरोधापत्तेः । अत्राङ्गुलानि संस्कार्यस्य ग्राह्याणि ।
मेखला गृह्ये--
"मौञ्जीं मेखलां त्रिवृतां ब्राह्मणस्य ज्या राजन्यस्याऽऽवीसूत्रं वैश्यस्य" इति ।
मौञ्जीं मुञ्जतृणनिर्मिताम् । त्रिवृतां त्रिगुणाम् । धनुषो रज्जुर्ज्या । आवीसूत्रमविलोममयी रज्जुः ।
धर्मसूत्रेऽपि--
"त्रिवृन्मौञ्जी मेखला ब्राह्मणस्य शक्तिविषये दक्षिणावृतानां ज्या राजन्यस्य मौञ्जी वाऽयोमिश्राऽऽवीसत्रं वैश्यस्य सैरी तामली वेत्येके" इति ।
त्रिवृत्रिगुणा । मुञ्जानां विकारो मौञ्जी । एवंभूता ब्राह्मणस्य मेखला भवति । सा च शक्तिविषये शक्तौ सत्यां दक्षिणावृतानां कर्तव्या । तद्धितार्थे गुणभूतानामपि मुञ्जानामेतद्विशेषणम् । ज्या धनुषो रज्जुः । अथवा मौञ्जी सा चायोमिश्रा क्वचित्कालायसेन बद्धा । अविरेवाऽऽविः(वी)। अ(आ)व्याः सूत्रमावीसूत्रम् । अविलोममयी रज्जुः । सैरी सीरवाहयोक्त्ररज्जुः। तामलो वृक्षस्तस्य त्वचा ग्रथिता तामली । एवंभूता वा वैश्यस्य मेखलेत्येक आचार्या मन्यन्त इति व्याख्यातमुज्ज्वलाकृता ।
विशेषमाह मनुः--
"त्रिवृन्मौञ्जी समा श्लक्ष्णा कार्या विप्रस्य मेखला । |
समा न क्वचित्सूक्ष्मा न क्वचित्स्थूला किं तर्हि सर्वत एव समा श्लक्ष्णा तन्तुतनुत्वगुणयुक्ता परिधृष्टा च, ज्या कदाचिच्चर्ममयी भवति कदाचित्तृणमयी । तत्र चर्ममयीव्यावृत्त्यर्थं मौर्वीति ज्याविशेषणम्, तया धनुषोऽवतारितया श्रोणिबन्धः कर्तव्य इति मेधातिथिः । ज्यायां त्रिवृत्त्वादिगुणो न, स्वरूपनाशप्रसङ्गात् । शणतान्तव्यां त्वस्त्येवेति ज्ञेयम् ।