पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[उपनयनप्रकरणम्]
१८१
संस्काररत्नमाला ।
( पित्राद्युक्ताधिकार्यभावेऽन्ये कर्तारः )
 

 इति योगीश्वरवचस्तत्पितामहवचोनुरोधेन पितृव्याभावविषयमिति प्राञ्चः । भगिन्यादिविवाहविषयमिति नवीनाः ।

 पित्राद्युक्ताधिकार्यभावे कर्तारमाह शौनकः--

"कुमारस्योपनयनं श्रुताभिजनवृत्तवान् ।
तपसा धूतनिःशेषपाप्मा कुर्याद्द्विजोत्तमः" इति ॥

 आचार्यं कुर्यादित्यधिकृत्य व्यासोऽपि--

"वेदैकनिष्ठं धर्मज्ञं कुलीनं श्रोत्रियं शुचिम् ।
स्वशाखाढ्यमनालस्यं विप्रं कर्तारमीप्सितम्" इति ॥

 वेदेषु वेदयोर्वेदे वैका निष्ठा यस्य । श्रोत्रियश्छन्दोध्यायी 'श्रोत्रियंश्छन्दोऽधीते' इति पाणिनिस्मरणात् ।

"धर्मेण वेदानामेकां शाखामधीत्य श्रोत्रियो भवति" ।

 इति धर्मसूत्राच्च ।

 स्वशाखाढ्यं स्वस्य या पारम्पर्यागता शाखा तयाऽऽढ्यम् । एतेन स्वशाखीय एवाऽऽचार्यो भवतीति सूचितम् । विप्रग्रहणं क्षत्रियवैश्यनिवृत्त्यर्थम् । शूद्रस्य निवृत्तिस्तु वेदाध्ययनाद्यभावादेव भवति । आचार्यशब्दार्थो धर्मसूत्रे-- 'यस्माद्धर्मानाचिनोति स आचार्यः' इति । आचिनोत्युपदिशति ।

 बृहस्पतिः--

"आचिनोति च शास्त्राणि आचारे स्थापयत्यपि ।
स्वयमाचरते यस्तु तस्माचार्यं प्रचक्षते" इति ।

 याज्ञवल्क्यः--

"स गुरुर्यः क्रियाः कृत्वा वेदमस्मै प्रयच्छति ।
उपनीय ददद्वेदमाचार्यः स उदाहृतः ॥
एकदेशमुपाध्याय ऋत्विग्यज्ञकृदुच्यते ।
एते मान्या यथापूर्वमेभ्यो माता गरीयसी" इति ॥

 यः सर्वा निषेकादिक्रियाः कृत्वाऽस्मै माणवकाय वेदं प्रयच्छत्यध्यापयति स गुरुः । एवं च पिता गुरुर्निषेकादिक्रियाकर्तृत्वात्तस्य ।

 देवलेनान्येऽपि गुरव उक्ताः--

"उपाध्यायः पिता ज्येष्ठो भ्राता चाऽऽचार्य एव च ।
मातुलः श्वशुरस्त्राता मातामहपितामहौ ॥