गर्जने मौञ्जीबन्धोऽपि न भवति । वेदारम्भं न कारयेदिति निषेधस्तु येषां सूत्रे वेदारम्भस्तद्दिन एव विहितस्तत्परः । सत्याषाढसूत्रानुसारिभिरकालिकानध्यायेऽपि मौञ्जीबन्ध एतस्माद्वचनात्कर्तव्य एव । वेदारम्भस्त्वविहितत्वादेव न भवति । ननु गायत्र्यारम्भेणैव सर्ववेदारम्भो भवतीति प्रयोगान्तर उक्तत्वाद्गायत्र्युपदेशात्मकारम्भ एव सर्ववेदारम्भस्तस्य च वेदारम्भं न कारयेदित्यनेन निषेध इति चेन्न । तस्याथर्ववेदव्यतिरिक्तसर्ववेदान्तराध्ययनार्थकपुनरुपनयननिवृत्तिबोधनार्थत्वात् । न चात्र किं मानमिति वाच्यम् । 'सर्वेभ्यो वै वेदेभ्यः सावित्र्यनूच्यत इति हि ब्राह्मणम्' इति धर्मसूत्रस्यागृह्यमाणविशेषत्वात् । एकमेवोपनयनं सर्वार्थमिति न्यायः । अस्मिन्नर्थे शाट्यायनब्राह्मणमेव पठितम् । अथर्ववेदस्य तु पृथगुपनयनं वचनात्कर्तव्यम् । तथा च तत्रैव श्रुतम्-- "नान्यत्र संस्कृतो भृग्वङ्गिरसोऽधीयीत" इति । अन्यत्रान्यवेदार्थम् । भृग्वङ्गिरसोऽथर्ववेद इत्युज्ज्वलाकृद्व्याख्यानस्य च मानत्वात् ।
अथोपनेतारः ।
तत्र वृद्धगर्गः--
"पिता पितामहो भ्राता ज्ञातयो गोत्रजाग्रजाः । |
भ्राता पितुः ।
"पितैवोपनयेत्पुत्रं तदभावे पितुः पिता । |
इति पितामहस्मरणात् ।
पिता विद्वांश्चेत्तदैवोपनयेदन्यथा न । धर्मसूत्रेऽविद्वत्कर्तृकोपनयने दोषस्योक्तेः । स चाग्रे प्रदर्श्यते । पितुर्विद्वत्त्वाभावे वक्ष्यमाणव्यासवचनोक्तलक्षणलक्षितः कश्चनोपनयनं कुर्यात् । एतद्वचनद्वयं विप्रपरं न क्षत्रियवैश्यपरं गायत्रीवाचनस्याध्यापनरूपत्वेन तत्र तयोरनधिकारात् । एतदर्थमेव "वेदैकनिष्ठं धर्मज्ञम्" इति वक्ष्यमाणव्यासवचने विप्रग्रहणं ज्ञेयम् । अतः पुरोहित एवोपनेतैतयोरिति ज्ञेयम् । ज्ञातयः सपिण्डास्तेषु तदतिरिक्तेषु च गोत्रजेषु येऽग्रजा वृद्धा वटोरपेक्षयेति द्वितीयपादार्थः । उपनेयकनिष्ठाचार्यत्वस्य निषिद्धत्वात् । गोत्रजा अग्रजा इत्यपेक्षितेऽकारलोपश्छान्दसः ।
यत्तु-- "असंस्कृतास्तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः" ।