पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[उपनयने वारादि ]
१७५
संस्काररत्नमाला ।
( उपनयने शाखेशवर्णेशबलावश्यकता )
 

 वासरानाह नारदः--

"गुरुशुक्रबुधानां तु वाराः श्रेष्ठतमाः स्मृताः ।
अधमः सोमवारस्तु सूर्यवारस्तु मध्यमः ॥
वारौ मन्दारयोर्वर्ज्यौ कृष्णे वर्ज्यो निशापतेः ।
अस्तं गतस्य सौम्यस्य वारो वर्ज्यो द्विजन्मनाम्" इति ॥

 मन्दः शनिः । आरो भौमः । निशापतिश्चन्द्रः । सौम्यो बुधः ।

 तथा--

"सर्वेषां जीवशुक्रज्ञवाराः प्रोक्ता व्रते शुभाः ।
चन्द्रार्कौ मध्यमौ ज्ञेयौ[१] सामबाहुजयोः कुजः ॥
शाखाधिपतिवारश्च शाखाधिपबलं तथा ।
शाखाधिपतिलग्नं च दुर्लभं त्रितयं व्रते" इति ।

 सर्वेषां ब्राह्मणादीनाम् । जीवो बृहस्पतिः । ज्ञो बुधः । बाहुजः क्षत्रियः । बलं गोचराष्टवर्गादि ।

 शाखाधिपबलासंभवे दोषमप्याह मदनरत्ने वृद्धगार्ग्यः--

"शाखाविषे बलिनि केन्द्रगते च मौञ्जीबन्धस्तदीयदिवसेषु शुभाय क्लृप्तः ।
अस्मिन्बलेन रहिते तु पुनर्द्विजानां स्याद्वर्णसंकर इति प्रवदन्ति तज्ज्ञाः" इति ।

 तदीयदिवसेषु शाखाधिपदिवसेषु । एतेन शाखाधिपबलस्याऽऽवश्यकतोक्ता भवति । तथा वर्णाधिपबलमप्यपेक्षते ।

 "सदाऽनुकूले चैकस्मिन्वर्णेशे बलशालिनि । ब्राह्मणादेः प्रकुर्वीत कुमारं व्रतचारिणम्" इति पराशरोक्तेः । "पती सितेज्यौ विप्राणां नृपाणां कुजभास्करौ । वैश्यानां शशभृत्सौम्याविति वर्णाधिपाः स्मृताः" ॥

 इति तेनैव व्यवस्थाप्रदर्शनाच्च ।

 मदनरत्ने राजमार्तण्डः--

"पितुः सूर्यबलं श्रेष्ठं शाखावर्णेशयोर्बटोः ।
सर्वेषां गुरुचन्द्रर्क्षबलं श्रेष्ठं प्र[२]कीर्तितम् ॥
मौञ्जीबन्धे विवाहे च प्रतिष्ठायां विशेषतः" इति ।

 सर्वेषामित्यनेन येषां न शाखाधिपो गुरुस्तेषामपि वटूनां तत्पितॄणां च गुरुबलमावश्यकम् । उभयोरलाभे वटोरावश्यकमिति ध्वन्यते ।


  1. ग. यौ सोम ।
  2. क. ख. व्रतादिषु ।