एवं च ब्राह्मणेन दक्षिणायन उपनयनं नैव कार्यं, नापि पौषाषाढयोः सत्यप्युत्तरायणे । उत्तरायणविशिष्टमाघादिपञ्चमासेषु कार्यम् । तत्रापि मीनार्कप्रभृति यावन्मिथुनप्रवेशं प्रशस्तः कालः । चान्द्रसौरान्यतरवसन्तलाभात् । मीनमेषयोस्तु प्रशस्ततरः । मीनमेषयोर्वा वसन्त इति बौधायनोक्तेः ।
"मृगकुम्भगते भानौ मध्यमं मीनमेषयोः । |
इति बृहस्पतिवचनाच्च ।
मृगो मकरः । गौर्वृषः । युगं मिथुनम् । मीनार्कविशिष्टश्चैत्रोऽनेकनिषेधापवादकतया प्रशस्ततमः ॥
"मीनस्थितेऽर्के खलु चैत्रमासे शुभप्रदो ब्राह्मणमौञ्जिबन्धः" । |
इति बृहस्पतिवाक्यस्य तदर्थत्वात् ।
अत एवोक्तं तेनैव--
"गोचराष्टकवर्गाभ्यां गुरुशुद्धिर्न लभ्यते । |
मौञ्जीपटले--
"जन्मभाद्दुष्टगे सिंहे नीचे वा शत्रुगे गुरौ । |
शौनकः--
"सिंहस्थे देवगुरौ मेषस्थे यदि भवेत्सहस्रांशुः । |
एतच्चातिसंकटे ज्ञेयम् ।
ज्योतिःशास्त्रे गर्गः--
"ज्येष्ठमासे विशेषेण ज्येष्ठपुत्रस्य नैव हि । |
स्मृत्यन्तरे--
"विवाहे चोपनयने जन्ममासं विवर्जयेत्" इति । |