अथ संक्षेपेणायनादिनिर्णयः । तत्राऽऽश्वलायनः--
"उदगयन आपूर्यमाणपक्षे कल्याणे नक्षत्रे चौलकर्मोपनयनगोदानविवाहाः" इति ।
कल्याणं ज्यातिःशास्त्रविरोधीति तद्वृत्तिकृत् ।
गर्गः--
"विप्रं वसन्ते क्षितिपं निदाघे वैश्यं घनान्ते व्रतिनं विदध्यात्" इति । |
निदाघो ग्रीष्मर्तुः । घनान्तः शरदृतुः ।
नन्वेवं विप्रं प्रति वसन्तनियमात्,
"विनर्तुना वसन्तेन कृष्णपक्षे गलग्रहे । |
इति बृहस्पतिना वसन्ताभावे दोषकथनाच्चोत्तरायणस्य विप्रं प्रति नित्यप्राप्ततया विधिवैयर्थ्यमिति चेन्न । केनापि निमित्तेन वसन्तालाभे तदन्योत्तरायणप्रापणार्थत्वात्,
तथा च गर्गः--
"माघादिशुक्रान्तकपञ्चमासाः साधारणा वा सकलद्विजानाम्" इति । |
शुक्रो ज्येष्ठमासः सोऽन्तके प्रान्ते येषां ते शुक्रान्तकाः । स्वार्थे कप्रत्ययः । ते च ते पञ्च मासाश्चेति कर्मधारयः ।
वृद्धगार्ग्यः--
"माघादिमासषट्कं तु मेखलाबन्धने मतम्" इति । |
मैत्रेयसूत्रेऽपि--
"वसन्तो ग्रीष्मः शरदृतवो वर्णानुपूर्व्येण माघादिषण्मासा वा सर्ववर्णानाम्" इति ।
आनुपूर्व्यं क्रमः । उत्तरायणशून्यमाघादिभागाषाढान्त्यभागयोर्निवृत्त्यै, उत्तरायणविधेरावश्यकत्वान्नैताभ्यां शास्त्राभ्यां पौनरुक्त्यम् । एतच्छास्त्रस्य मकरार्कविशिष्टपौषनिषेधार्थत्वेन पञ्चसंख्याविधेर्मिथुनार्कविशिष्टाषाढनिवृत्त्यर्थत्वेन च सार्थक्यान्न माघादिमासविधायकशास्त्रस्योत्तरायणविधायकशास्त्रेणैव प्राप्तावपि व्यर्थता । षट्संख्याविधेस्तु वैश्यं प्रति श्रावणादिनिषेधार्थत्वात्केनापि निमित्तेन शरदलाभे दक्षिणायनान्तर्गताषाढभागप्रापणार्थत्वाच्च न व्यर्थता ।
अस्ति हि तं प्रति दक्षिणायनविधिर्बृहस्पतिवृद्धवसिष्ठोक्तः--
"विप्रस्य क्षत्रियस्यापि मौञ्जी स्यादुत्तरायणे । |