पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[ग्रहमखप्रयोगः]
१६३
संस्काररत्नमाला ।
( उत्तरपूजनपीठदानविसर्जनानि, आज्यावेक्षणदाने )
 

 छागपक्षे--

यस्मात्त्वं छाग यज्ञानामङ्गत्वेन व्यवस्थितः ।
यानं विभावसोर्नित्यमतः शान्तिं प्रयच्छ मे ॥

 एतेषां पदार्थानां विषममूल्यकत्वेऽपि न्यूनलाभवद्भ्यः सुवर्णदानेन लाभसाम्यं संपादनीयम् । उक्तदक्षिणानामभावे सर्वेभ्यस्तुष्टिकरं हिरण्यमेव वा दद्यात् । अतो नात्र मूल्याध्यायोक्तमूल्यदानम् । सर्वेष्वपि पक्षेष्वाचार्याय द्विगुणं दद्यात् । कर्मणः साद्गुण्यार्थमन्येभ्यो ब्राह्मणेभ्यो भूयसीं दद्यात् ।

 ततो ग्रहपीठदेवतानां मण्डपश्चेत्तद्देवतानां च यजमानः पञ्चोपचारैरुत्तरपूजनं विधाय सप्रणवैस्तत्तन्नाममन्त्रैरादित्यादिदेवताभ्यो नम इति समुदितरूपेण वा पुष्पाञ्जलिं समर्पयेत् ।

 तत आचार्यो ग्रहपीठदेवतानां मण्डपश्चेत्तद्देवतानां चोद्वासनमुत्तिष्ठेति मन्त्रेण कुर्यात् ।

 ततो यजमान इदं ग्रहपीठं सप्रतिमं सकलशं सोपस्करमाचार्याय तुभ्यमहं संप्रदद इत्याचार्याय समर्पयेत् । मण्डपश्चेत्सोपस्करं मण्डपसहितमिदं ग्रहपीठमिति ।

 तत आचार्योऽग्निं संपूज्य--

"गच्छ गच्छ सुरश्रेष्ठ स्वस्थाने परमेश्वर
यत्र ब्रह्मादयो देवास्तत्र गच्छ हुताशन" ॥ इति विसृजेत् ।

 अथ यजमानः कांस्यपात्रगताज्ये सकुटुम्बः [१]स्वप्रतिरूपमवेक्ष्य--

"आज्यं तेजः समुद्दिष्टमाज्यं पापहरं स्मृतम् ।
आज्यं सुराणामाहार आज्ये लोकाः प्रतिष्ठिताः ॥
अलक्ष्मीर्या यच्च दौस्थ्यं मम गात्रेष्ववस्थितम् ।
तत्सर्वं क्षपयाऽऽज्य त्वं लक्ष्मीं पुष्टिं च वर्धय" ॥

 इति पठित्वा तदाज्यं सदक्षिणं ब्राह्मणाय दद्यात् । ततो यावत्यः प्रधानाहुतयस्तावतो ब्राह्मणान्भोजयेद्यावन्ति तदाहुतिशतानि तावतो वा यावन्ति तत्सहस्राणि तावतो वा यथासंभवं वा । ततो[२] यस्य स्मृत्येति विष्णुं स्मरेत् । ततो भुक्तवद्भ्यो यथाविभवं दक्षिणां दत्त्वा क्षमाप्य तदाशिषो गृहीत्वा प्रणि


  1. ग. स्वस्वप्र ।
  2. ख. ग. घ. ङ. तो भु ।