पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६२
[ग्रहमखप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--
( विभूतिधारणम्, ऋत्विग्भ्यो दक्षिणाप्रदानं तन्मन्त्राश्च )
 

 तत आचार्येण सह यजमानो मा नस्तोक इति विभूतिधारणं कृत्वाऽऽचार्यादीन्पादप्रक्षालनार्घ्यगन्धाक्षतपुष्पैः संपूज्य तेभ्यो दक्षिणां दद्यात् । तत्राऽऽचार्याय गौः । ब्रह्मणेऽनड्वान् । सदस्यायाश्वः । सूर्यप्रीत्यर्थं कपिला गौः १। सोमप्रीत्यर्थं शङ्खः २ । अङ्गारकप्रीत्यर्थं रक्तोऽनड्वान् ३ । बुधप्रीत्यर्थं सुवर्णम् ४ । बृहस्पतिप्रीत्यर्थं पीतं वासः ५ । शुक्रप्रीत्यर्थं श्वेताश्वः ६ । शनिप्रीत्यर्थं कृष्णा गौः ७ । राहुप्रीत्यर्थं कालायसम् ८ । केतुप्रीत्यर्थं हस्ती छागो वेति ९ तत्तद्धोमकर्त्रे व्यवस्थया तां तां दक्षिणां दद्यात् ।

 यदि नवभ्योऽधिका ऋत्विजस्तदा तेभ्यः प्रत्येकमेकैका गौर्देया । न्यूनत्वे तु गोशङ्खादिनवदक्षिणा यथासंभवं तेभ्य एव देयाः ।

 अथ गवादीनां नवानां क्रमेण मन्त्राः--

कपिले सर्वदेवानां पूजनीयाऽसि सर्वदा ।
सर्वदेवमयी यस्मादतः शान्तिं प्रयच्छ मे ॥
त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे ।
पाञ्चजन्य प्रदास्यामि ह्यतः शान्तिं प्रयच्छ मे ॥
धर्मस्त्वं वृषरूपेण जगदानन्दकार[१]क ।
अष्टमूर्तरधिष्ठानमतः शान्तिं प्रयच्छ मे ॥
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः ।
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे ॥
पीतवस्त्र[२]मिदं यस्माद्वासुदेवस्य वल्लभम् ।
प्रदानात्तस्य मे विष्णुः सदा शान्तिं प्रयच्छतु ॥
विष्णुस्त्वमश्वरूपेण यस्मादमृतसंभवः[३]
[४]सूर्यस्य वाहनं[५] नित्यमतः शान्तिं प्रयच्छ मे ॥
यस्मात्त्वं पृथिवी सर्वा धेनो वै कृष्णसंनिभे ।
सर्वपापहरा नित्यमतः शान्तिं प्रयच्छ मे ॥
यस्मादायसकार्याणि त्वदधीनानि सर्वदा ।
लाङ्गलाद्यायुधादीनि तस्माच्छान्तिं प्रयच्छ मे ॥
सप्रतीक गजेन्द्र त्वं देवेन्द्रस्य च वाहनम् ।
दानेनानेन दत्तेन सदा शान्तिं प्रयच्छ मे ॥


  1. क. ख. रकः । अ ।
  2. क. स्त्रद्वयं य ।
  3. क. ख. ग. वः । चन्द्राकवा ।
  4. ध. सर्वस्य ।
  5. ख. हनो नि ।