पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५६
[ग्रहमखप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--
(आदित्यादिग्रहदेवताबलिदानम् )
 

धाय सशक्तिकायामुं सदीपं माषभक्तबलिं समर्पयामीति साक्षतं जलं त्यक्त्वा भो निर्ऋते० भव० निर्ऋतिः प्रीयताम् ।

 तत्त्वा यामीत्यस्य विश्वे देवा वरुणस्त्रिष्टुप् । वरुणप्रीत्यर्थं बलिदाने विनियोगः-- "ॐ तत्त्वा यामि ब्रह्मणा० प्रमोषीः" वरुणाय साङ्गाय सपरिवाराय सायुधाय सशक्तिकायामुं सदीपं माषभक्तबलिं समर्पयामीति साक्षतं जलं त्यक्त्वा भो वरुण० भव० वरुणः प्रीयताम् ।

 आ नो नियुद्भिरित्यस्य विश्वे देवा वायुस्त्रिष्टुप् । वायुप्रीत्यर्थं बलिदाने विनियोगः-- "ॐ आ नो नियु० दानः" वायवे साङ्गाय सपरिवाराय सायुधाय सशक्तिकायामुं सदीपं माषभक्तबलिं समर्पयामीति साक्षतं जलं त्यक्त्वा भो वायो० भव० वायुः प्रीयताम् ।

 सं ते पया सीत्यस्याग्निः सोमस्त्रिष्टुप् । सोमप्रीत्यर्थं बलिदाने विनियोगः-- "ॐ सं ते पया० धिष्व" सोमाय साङ्गाय सपरिवाराय सायुधाय सशक्तिकायामुं सदीपं माषभक्तबलिं समर्पयामीति साक्षतं जलं त्यक्त्वा भोः सोम० भव० सोमः प्रीयताम् ।

 अभि त्वेत्यस्य विश्वे देवा ईशानो गायत्री । ईशानप्रीत्यर्थं बलिदाने विनियोगः-- "ॐ अभि त्वा देव० मीमहे" ईशानाय साङ्गाय सपरिवाराय सायुधाय सशक्तिकायामुं सदीपं माषभक्तबलिं समर्पयामीति साक्षतं जलं त्यक्त्वा भो ईशान० भव० ईशानः प्रीयताम् ।

 ततो ग्रहादिबलयो ग्रहपीठसमीपे--

 आ सत्येनेत्यस्य विश्वे देवाः [१]सविता त्रिष्टुप् । सूर्यप्रीत्यर्थं बलिदाने विनियोगः-- "ॐ आ सत्येन रजसाः पश्यन्"  सूर्याय साङ्गाय सपरिवाराय सायुधाय सशक्तिकायेश्वराग्निरूपाधिदेवताप्रत्यधिदेवतासहितायेमं सदीपं माषभक्तबलिं समर्पयामि । भोः सूर्येमं बलिं गृहाण मम सकुटुम्बस्याऽऽयुष्कर्ता क्षेमकर्ता शान्तिकर्ता पुष्टिकर्ता तुष्टिकर्ता निर्विघ्नकर्ता वरदो भवेति प्रार्थयेत् । अनेन ब० सूर्यः प्रीयताम् ।

 आप्यायस्वेत्यस्य सोमः सोमो गायत्री । सोमप्रीत्यर्थं बलिदाने विनियोगः-- "आप्यायस्व समे० संगथे" सोमाय साङ्गाय सपरिवाराय सायुधाय सशक्तिकायोमाब्रूपाधिदेवताप्रत्यधिदेवतासहितायेमं सदीपं माषभक्तबलिं समर्पयामि । भोः सोम० भव० सोमः प्रीयताम् ।


  1. घ. ङ. सूर्यः ।