पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[ग्रहमखप्रयोगः]
१४९
संस्काररत्नमाला ।
( रुद्रकलशाराधनम् )
 

"ॐ आप्यायस्व समेतु ते विश्वतः सोमवृष्णियम् । भवा वाजस्य संगथे" इति कलशे क्षीरं प्रक्षिप्य,

 दधिक्राव्ण इत्यस्य विश्वे देवा दधिक्रावाऽनुष्टुप् । दधिप्रक्षेपे विनियोगः-- "ॐ दधिक्राव्णो अकारिषं० तारिपत्" इति [१]कलशे दधि प्रक्षिप्य,

 शुक्रमसीत्यस्य प्रजापतिराज्यं यजुः । आज्यप्रक्षेपे विनियोगः--"ॐ शुक्रमसि ज्योतिरसि तेजोऽसि" इति कलश आज्यं प्रक्षिप्य,

 मधु वाता [२]इति मन्त्रत्रयस्याग्निर्विश्वे देवा गायत्री । मधुप्रक्षेपे विनियोगः-- "ॐ मधु वाता० भवन्तु नः" क. इत्यस्या' । इति कलशे मधु प्रक्षिप्य,

 त्वे क्रतुमित्यस्य सोमः प्रजापतिस्त्रिष्टप् । शर्कराप्रक्षेपे विनियोगः-- "ॐ त्वे क्रतुमपि० योधि" इति कलशे शर्करां प्रक्षिप्य,

 तत्सवितुरित्यस्या गायत्र्या विश्वामित्रः सविता गायत्री । गोमूत्रप्रक्षेपे विनियोगः-- "ॐ तत्सवितु० यात्" इति कलशे गोमूत्रं प्रक्षिप्य,

 गन्धद्वारामित्यस्य याज्ञिक्यो देवता उपनिषदः श्रीरनुष्टुप् । गोमयप्रक्षेपे विनियोगः-- "ॐ गन्धद्वारा० श्रियम्" इति कलशे गोमयं प्रक्षिप्य,

 पुनराप्यायस्वेत्यादिभिस्त्रिभिः क्षीरदधिघृतानि कलशे प्रक्षिप्य, नूतनाहृतचित्रपर्वतधातूंस्तूष्णीं प्रक्षिप्य, उद्धृताऽसि वराहेणेत्यस्य याज्ञिक्यो देवता उपनिषदो मृत्तिकाऽनुष्टुप् । सप्तमृत्प्रक्षेपे विनियोगः--"ॐ उद्धृताऽसि वराहेण कृष्णेन शत० कृतम्" इति कलशेऽश्वशालागजशालावल्मीकनदीसंगमह्रदराजद्वारगोष्ठप्रदेशाहृताः सप्त मृत्तिकाः प्रक्षिप्य[३] गन्धद्वारामित्यस्य याज्ञिक्यो देवता उपनिषदः श्रीरनुष्टुप्, गन्धप्रक्षेपणे वि० "गन्धद्वारा० श्रियम् " इति कलशे गन्धं प्रक्षिप्य या जाता ओषधय इत्यस्याग्निरोषधयोऽनुष्टुप् । ओषधिप्रक्षेपे विनियोगः-- "ॐ या जाता ओ० सप्त च" इति कुष्ठमांसीहरिद्राद्वयमुराशैलेयचन्दनसटीचम्पकमुस्तात्मिका दशौषधीः[४] सहैव कलशे निक्षिपेत् ।

 कुष्ठं कोष्ठम् । मांसी जटामांसी । हरिद्रैका प्रसिद्धा । द्वितीया दारुहळद इति, मुरा मोरवेल इति परशुरामक्षेत्रे प्र[५]सिद्धा । शैलेयं शिलारसः । चन्दनं


  1. क. ख. पुस्तकयोरत्र "कलशे दधि" इति पदद्वयरहितः पाठः । एवमग्रेऽपि ।
  2. क. इत्यस्या ।
  3. क. ख. प्य पुण्याहवाचनप्रकरणोक्तैर्गन्धद्वारामित्यादिभिर्गन्धादीन्रत्नान्तानुपचारान्प्रक्षिप्य या ।
  4. क. ख. धीः क ।
  5. क. ख. प्रसिद्धिः ।