पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४८
[ग्रहमखप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--
( ग्रहपूजने नैवेद्यफलादि, रुद्रकलशस्थापनं च )
 

 यथोक्तचन्दनपुष्पालाभे यत्किंचित्तत्तद्वर्णयुक्चन्दनादि । तत्तद्वर्णवस्त्रगन्धपुष्पाणामलाभे श्वेतानि । यथोक्तधूपालाभे गुग्गुलुः । तस्याप्यलाभे यः कश्चन सौरभ्ययुक् ।

 रवये गुडौद[१]नम् । सोमाय घृतयुक्तं पायसम् । भौमाय हविष्यान्नम् । बुधाय षाष्टिकपायसम् । गुरवे दध्योद[२]नम् । शुक्राय घृतौद[३]नम् । शनये तिलमाषमिश्रि[४]तमन्नम् । राहवे लवणमिश्रक्षीरयु[५]क्तमोदनम् । केतव आरक्तपिष्टयुतलवणमि[६]श्राजाक्षीरयुततिलतण्डुलमिश्रित[७]मोदनम् ।

 एतेषामलाभे तत्तद्वर्णयुक्तौदनो नैवेद्यं घृतौदनं वा ।

 रवये द्राक्षाफलानि । सोमायेक्षवः । भौमाय [८]पूगानि । बुधाय नारिङ्गाणि । गुरवे जम्बीराणि । शुक्राय बीजपूराणि । शनये खर्जूरफलानि । राहवे नारिके[९]राणि । केतवे दाडि[१०]मानि ।

 [११]यथोक्तफलालाभे नारिकेरफलानि खर्जूरफलानि वा ।]

 सति संभवे फलपुष्पसमन्वितं वितानमप्यर्पणीयम् ।

 अधिदेवताप्रत्यधिदेवतानां चैत एवोपचाराः । गणपत्यादिषु तु श्वेतमेव चन्दनं, शतपत्राण्येव पुष्पाणि, [१२]धूपो गुग्गुलुरेव । गोघृतदीपः । घृतौदननैवेद्यम् । शतपत्रपुष्पालाभे यथासंभवं [१३]पुष्पम् । फलं नारीकेरम् । खर्जूरफलं वेति द्रष्टव्यम् ।

 ततः पीठादीशान्यामुदीच्यां वा मही द्यौरिति भूमिं स्पृष्ट्वा तत्र रङ्गवल्लीपद्मं विधायौषधयः संवदन्त इति प्रस्थपरिमितधान्यपुञ्जं तत्र कृत्वा तत्राऽऽजिघ्रेत्यनेन नवमव्रणं तैजसं मृन्मयं वा चन्दनेनानुलिप्तं दध्यक्षतपुष्पमालाद्यलंकृतं[१४] त्रिसूत्रवेष्टितग्रीवं कलशं संस्थाप्येमं म इत्युदकेन पूरयित्वाऽऽप्यायस्वेत्यस्याग्निः सोमो गायत्री क्षीरप्रक्षेपे विनियोगः--


  1. ग. घ. ङ. दनः । सो ।
  2. घ. ड. दन. । शु ।
  3. ग. घ. ङ. दनः । श ।
  4. ग. घ. ङ. श्रितौदनः । रा ।
  5. ग. घ. ङ. युक्तौदनः । ए ।
  6. ग. घ. ङ. मिश्रिताजा ।
  7. ग. घ. ड. त ओदनः । र।
  8. ग. पूगीफलानि ।
  9. ग. घ. ङ. केरफलानि । के ।
  10. घ. ड. डिमीफलानि ।
  11. एतस्मात्प्राक् घ. ङ. पुस्तकयोरधिकमेतत्--"ग्रहवर्णवस्त्राभावे स्वेन रञ्जितानि कृत्वा समर्पणीयानि । एतदसंभवे श्वेतानि । यथोक्तचन्दनपुष्पालाभे यानि कानिचित्तत्तद्वर्णानि । तदलाभे श्वेतानि । यथोक्तधूपालाभे गुग्गुलुः । तस्याप्यलाभे यः कश्चन सौरभ्ययुक । यथोक्तौदनालाभे तत्तद्वर्णयुक्तपिष्टौदनो घृतौदनो वा नैवेद्यम्" इति । अत्रोपक्रमोक्ता फक्किकाऽऽवश्यिका ।
  12. क. ख. धूपः स एव ।
  13. क. ख. वं श्वेतपुष्पमिति । त ।
  14. क ख. तं कुम्भं सं ।