पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४६
[ग्रहमखप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--
(लोकपालावाहनस्थापने)
 

हयामीति राहुमण्डलान्नैर्ऋत्यां खड्गचर्मधरं नीलं नरारूढमूर्ध्वकेशं विरूपाक्षं करालं कालिकापियं निर्ऋतिम् ।

 तत्त्वा यामीत्यस्य विश्वे देवा वरुणस्त्रिष्टुप् । समस्त० वरुणावाहने विनियोगः । "ॐ तत्त्वा यामि० प्रमोषीः" भूर्भुवः सुवः, वरुणाय नमो वरुणमावाहयामीति शनिमण्डलात्पश्चिमतो नागपाशधरमम्बुपतिं[१] श्वेतभूषणं पद्मिनीप्रियं मकरारूढं वरुणम् ।

 आ नो नियुद्भिरित्यस्य विश्वे देवा वायुस्त्रिष्टुप् । समस्त० वाय्वावाहने विनियोगः-- "ॐ आ नो नियुद्भिः शति० सदा नः" भूर्भुवः सुवः । वायवे नमो वायुमावाहयामीति केतुमण्डलाद्वायव्यां जगत्प्रमाणरूपं कृष्णमृगारूढं हेमदण्डधरं श्यामवर्णं मोहिनीप्रियं वायुम् ।

 सं ते पया सीत्यस्याग्निः सोमस्त्रिष्टुप् । समस्त० सोमावाहने विनियोगः-- "ॐ सं ते पया० निधिष्व" भूर्भुवः सुवः । सोमाय नमः सोममावाहयामीति बृहस्पतिमण्डलादुत्तरतो मृगारूढं गदापाणिं श्वेतवर्णं रोहिणीप्रियं सोमम् ।

 कुबेरपक्षे[२]-- अश्वारूढं कुन्तपाणिं निधीश्वरं सुवर्णवर्णं धनदं रूपवन्तं प्रभुं चित्रिणीप्रियं कुबे[३]रम् । ऐन्द्रीन्यायेन मन्त्रः स एव, राजाधिराजायेति मन्त्रो वा । अस्य मन्त्रस्यारुणा ऋषयः कुबेरो देवता जगती छन्दः । इत्यृष्यादि द्रष्टव्यम् । नमोन्तोऽयं मन्त्रो द्रष्टव्यः ।

 अभि त्वेत्यस्य विश्वे देवा ईशानो गायत्री । समस्त० ईशानावाहने विनियोगः-- "ॐ अभि त्वा देव० मीमहे" भूर्भुवः सुवः, ईशानाय नम ईशानमावाहयामीति बुधमण्डलादीशान्यां शुद्धस्फटिकसंकाशं वृषारूढं वरदाभयशूलाक्षसूत्रधारिणं पञ्चवक्त्रं त्रिनेत्रं नानाभरणभूषितं पार्वतीप्रियमीशानम् ।

 इति प्रतिमास्वक्षतपुञ्जेषु वा लोकपालानावाहयेत् । ईश्वरादिष्वपीहाऽऽगच्छेत्यावाह्येहाधितिष्ठेति संस्थापनमित्येवं वा प्रयोगः ।


  1. क. ति रक्तभू ।
  2. घ. ङ. क्षे राजाधिगजायेत्यस्यारुणा. कुबेरोऽष्टिः । समस्तव्या० ती । कुबेरावा० । ॐ राजाधिराजाय० महाराजाय नमः । भू० शिबिकारूढ ।
  3. घ. ङ बेरमावा० इति कुबेरम् । स्थानं सोमस्यैवैतस्यापि । अभि ।