पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[ग्रहमखप्रयोगः]
१४५
संस्काररत्नमाला ।
( लोकपालावाहनस्थापने )
 

पुरपत्तनप्रासादप्रपावापीसरःकूपादिसंनिवेशसांनिध्यकरं सर्वसिद्धिप्रदं प्रसन्नवदनं विश्वंभरं परमपुरुषरूपं चक्रशार्ङ्गधरं वरदाभयहस्तं वास्तोष्पतिम् ।

 क्षेत्रस्य पतिनेत्यस्य विश्वे देवाः क्षेत्रपालोऽनुष्टुप् । समस्त० क्षेत्रपालावाहने विनियोगः--"ॐ क्षेत्रस्य पति० तीदृशे" भूर्भुवः सुवः, क्षेत्रपालाय नमः क्षेत्रपालमावाहयामीत्यङ्गारकस्योत्तरतः श्यामवर्णं त्रिलोचनमूर्ध्वकेशं सुदंष्ट्रं भृकुटिकुटिलाननं नूपुरालंकृताङ्घ्रिं सर्पमेखलायुतं सर्पाङ्गमतिक्रूरं क्षुद्रघण्टामयीं करोटिकामयीं गुल्फावलम्बिनीं मालां दधानमुरगाबद्धं चन्द्ररेखासुमुखमष्टहस्तं शुलकुन्तखङ्गदुन्दुभियुतदक्षिणहस्तं कपालघण्टाचर्मचापयुतवामहस्तं भीमं दिग्वाससममितद्युतिं क्षेत्रपालम् ।

अथवा सूर्यगुरु[१]शनिकेतुमध्ये गणपत्यादीन्यथावकाशं स्थापयेत् ।

इति क्रतुसंरक्षकदेवताः ।

अथ लोकपालाः ।

 प्रातारमिन्द्रमित्यस्य विश्वे देवा इन्द्रस्त्रिष्टुप् । समस्त० इन्द्रावाहने विनियोगः । "ॐ त्रातारमि० त्विन्द्रः" भूर्भुवः सुवः, इन्द्राय नम इन्द्रमावाहयामीति शुक्रमण्डलात्पुरत ऐरावतारूढं वज्रपाणिं सुवर्णवर्णं सहस्राक्षं नाकपममरेश्वरमिन्द्रम् ।

 अग्ने नयेत्यस्य विश्वे देवा अग्निस्त्रिष्टुप् । समस्त० अग्न्यावाहने विनियोगः । "ॐ अग्ने नय सु० विधेम" भूर्भुवः सुवः, अग्नये नमोऽग्निमावाहयामीति सोममण्डलादाग्नेय्यां सुवर्णवर्णं सप्तार्चिषं सप्तहस्तं स्वाहास्वधाप्रियं चतुःशृङ्गं सप्तजिह्वं द्विशीर्षं त्रिपादं मेषारूढं शक्त्यन्नास्रुक्स्रुवतोमरव्यजनघृतपात्रधारिणमग्निम् ।

 इमं यमेत्यस्य विश्वे देवा यमस्त्रिष्टुप् । समस्त० यमावाहने विनियोगः । "ॐ इमं यम प्रस्त० मादयस्व" भूर्भुवः सुवः, यमाय नमो यममावाहयामीत्यङ्गारकमण्डलाद्दक्षिणतो दण्डधारिणमिलाप्रियं महिषवाहनं कृष्णवर्णं शुभाशुभकर्मफलप्रदं यमम् ।

 असुन्वन्तमित्यस्याग्निर्निर्ऋतिस्त्रिष्टुप् । समस्त० निर्ऋत्यावाहने विनियोगः । "ॐ असुन्वन्त० मस्तु" भूर्भुवः सुवः, निर्ऋतये नमो निर्ऋतिमावा


१९
 
  1. क. ख. ग. रुके ।