पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३२ )

यस्त्वामाराधयति सममाराधकः 'प्रोज्ज्वलास्यो
मुक्तो लोके परभवनगो ब्रह्मसायुज्यमेति ।
त्वं वै पूर्वं विदितलहणानामकः साम्प्रतं ते
श्रीमत्पूज्योङ्गद इति भुवि ख्यातनामैव भूयात् ॥ ६ ॥

इत्थं श्रीगुरुनानकस्य महिमा सम्यङ् मयाऽऽलोकित-
स्तेनाहं कृतकृत्यतामुपगतो निश्चिन्त एव स्थितः ।
त्वत् प्रश्नोत्तरमेव ये निगदितं भो बाल कच्चिच्छ्रुतं
भाईवाल उवाच ते निगदितं श्रुत्वा कृतार्थोऽस्म्यहम् ।। ७ ॥

गोद्स्थानामरदासकस्य बहवः शिष्याः समाजग्मकु:
तेषां भोजनसिद्धय रसवती पाकाधिकारान् बहून् ।
युक्त्वा तत्कृतये जलाय च परान् सम्प्रेरयन् श्रीगुरुः
तत्कुम्भान् क्षितिगोलकैश्च प्रहरन्तो म्लेच्छबालाः सुताः ||८||

शेषाख्या हि वभञ्जुरितरं संविद्रते श्रीगुरुं
तानूचे दृतिपात्रमैव कुरुतां ते तान्यभैत्सुः शरैः ।
भूयस्तान् गुरुराह पित्तलमयं पात्रं तथा ताम्रक
भूयो भैत्सुरपीह शैलपतनं ते तं तथोचुर्गुरुम् ॥ ९ ॥

तैः शिष्यैः पृष्ट एव प्रवदति स गुरुः स्मेति कुर्वन्ति पापं
ये सजनैस्ते सुरगणनिहताः प्रापिता मूलनाशम् ।
बन्धान्ते मृत्युमापुः क्रधितनृपवशाद्धस्वदीर्घाश्च सर्वे
शिष्यराज्ञागृहीता परमसुखयुता यैरिहामुत्र लोके ॥ १० ॥

एकेद्युर्गुरुरामदासभवनं श्रीचन्द्र आगत्य भो-
स्तं पप्रच्छे किमर्थमेमं मुखकूर्च विवर्धितं सद्धृतम् ।
तेनोक्तं भवदीयपादयुगलपोञ्छाय मे कूर्चकं
तच्छ्रुत्वा कथितं प्रसिद्धपदवी प्राप्ता त्वयेदृक्तया ॥ ११ ॥