सामग्री पर जाएँ

पृष्ठम्:श्रुतबोधः.djvu/९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
संस्कृत तथा भाषाटीकासहितः


- मात्राः, चतुर्थके-तुर्ये,पञ्चदश मात्रा स्युः, सा-वृतिः,आर्या नाम | आर्याचरणेषु क्रमान्मात्रा १२-१८-१२-१५ ॥४॥

 भाषा-जिस श्लोक के प्रथम तथा तृतीय चरणमें १२ मात्रा हों, द्वितीय में १८ और चतुर्थ में १५ मात्रा हों । उसको आर्या छन्द कहते हैं ॥४॥

गीतिः (आर्या)

आर्यापूर्वार्धसमं द्वितीयमपि भवति यत्र हंसगते
छन्दोविदस्तदानीं गीतिं ताममृतवाणि भाषन्ते।
॥५॥}}

 अन्वयः-हे हंसगते, यत्र द्वितीयमपि आर्यापूर्वार्धसमं भवति, हे अमृतवाणि, छन्दोविदः तदानीं तां गीति भाषन्ते ॥५॥

  अर्थ:-हे हंसगते! हंसस्येव गतिर्गमनं यस्यास्तत्सम्बुद्धौ,यत्र-वृतौ, आर्याया पूर्वार्धेन समं,-तुल्यं, द्वितीयमपि-उत्तरार्धमपि, भवति-जायते, अमृतमिव-पीयूषमिव वाणी-वाक्यस्यास्तत्सम्बुद्धौ हे अमृतवाणि, छन्दोविदः-छन्दःशास्त्रज्ञाः, तदानीं-तदा, तां गीतिं-तन्नामकं छन्दः, भाषन्ते-कथयन्ति । गीतिचरणेषु क्रमान्मात्राः १२-१८-१२-१८ ॥५॥