पृष्ठम्:श्रुतबोधः.djvu/६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५८
परिशिष्टम्


श्रुतबोधे प्रश्राः

 (१) पृथ्वीहरिण्योः कस्मिन्विषये भेदः; कस्मिश्चाभेद इति सलक्षणमुत्तरणीयम् ।  (२) लक्ष्यन्तामुदाहियन्तां चायोविन्यस्तछन्दांसि; शालिनी- मन्दक्रान्ता-शिखरिणी-स्रग्धरा-उपेन्द्रवज्रा-इन्द्रवंशेति ।  (३) यस्मिन्वृत्ते आद्यात्रयः अष्टमः दशमः द्वादशत्रयोदशी च गुरवः सन्ति तस्य किं नाम ।  (४) मणिबन्यस्यादावन्ते एकगुरुयोजने किं छन्दो भवति ।  (५) अधोलिखितानां पादाना यस्मिन्समावेशस्तस्य किं नाम।  कनककुण्डलमण्डितगण्डया ॥१॥  द्वन्द्वो द्विगुरपि चाह मद्गेहे नित्यमव्ययीभावः ॥ २ ॥  कथमयमपि कालश्चारुचन्द्रावतंसः ॥३॥  सस्तादम्बुमदम्बुदालिगलरुग्देवो मुदे वो मृडः ॥४॥  ६) यस्मिन् प्रथमे पांच वर्णाः तथा एकादशत्रयोदशचतुर्दश  षोडशाश्च वर्णाः लघवः सन्ति तत्किनामकं छन्दः ।  (७) गणानां नामानि कानि; कानि च तेषां फलानि ।  (८) श्रुतबोध इति नाम अन्वर्थमनन्वर्थम्वेति सयुक्तिकं लिख ।  (९) पादान्तस्थं विकल्पेनेत्यस्योदाहरणं लिख ।  (१०)अस्य ग्रन्थस्य का कः कथं तन्निर्णय इति लिख ।

इति