पृष्ठम्:श्रुतबोधः.djvu/५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५६
परिशिष्टम् ।


 १ यथा सुधांशुधवलोऽतिवृत्तः
 क्रान्तान्तरीक्षो हरिणं दधानः ।
 महतमो घ्नन् जनतापहारो
 मृगेन्द्रवद्राजति ऋक्षमध्ये ॥



कथानगरसर्वार्थ नित्य कृत्यादि वर्णनैः ।
लोकानां दृष्टचेष्टाभिश्छन्दोभ्यासक्रमो यथा।।
आसीत् दशरथो राजा चत्वारस्तस्य सूनवः ।
रामलक्ष्मणशत्रुघ्नभरता इति विश्रुताः ॥
ध्वस्तध्वान्तभरं रत्नवेश्मविस्मेररश्मिभि: ।
राजधानी दिनस्येव तत्पुर द्योतते सदा ॥
स्थाली भात्यन्नपुर्णेयमम्भोभिः शोभते घटः ।
पटः संलक्ष्यते सूक्ष्मः साक्षाल्लक्ष्मीरियं वधूः॥


१ इस जोक में 'सुधांशुको’ विशेष्य कर बाकी सब उसके विशेषण किये हैं॥