पृष्ठम्:श्रीसुबोधिनी.pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६८
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


तदनन्तरमेव अहं पुरुषोत्तमः, अंशानां वासुदेवसङ्कर्षणप्रद्युम्नाऽनिरुद्धानां भागेन विभागेन चतुर्दाकार्यकरणाद् देवक्याः पुत्रताM प्राप्स्यामि । भागेनेत्येकवचनं प्रद्युम्नांशेनैव पुत्रत्वमिति ज्ञापनार्थम् ।। अथाहमिति सन्दर्भेण यथा त्वं गमिष्यसि अन्यत्रोत्पन्नान्यत्र, तथाहमपीति ज्ञापितम् ॥ पुत्रतामिति लोकप्रतीत्या तद्धर्मवत्त्वं ज्ञापितम् । न त्वहं पुत्रो भविष्यामि । शुभ इति सम्बोधनेन त्वद्गमनेन मद्रमणस्थानं शोभायुक्तं भविष्यतीत्यग्रीमाज्ञापने हेतुकथनार्थम् । तस्या भगवदेकशरणाया वैकुण्ठे केवलं स्थातुमयुक्तमिति तामपि जननार्थमाज्ञापयति । त्वं यशोदायां नन्दपत्न्यां भविष्यसीति ॥ ८ ॥

 स्तन्योत्पादनार्थं मोहजननार्थं मारणार्थं च यद्यप्युत्पाद्यते,तथापि तस्यास्तदनिष्टमिति तदनुक्त्वा फलान्तरमाह---


 अर्चिष्यन्ति मनुष्यास्त्वां सर्वकामवरेश्वरीम् ॥
 धूपोपहारबलिभिः सर्वकामवरप्रदाम् ॥९॥

 नामधेयानि कुर्वन्ति स्थानानि च नरा भुवि ।।
 दुर्गेति भद्रकालीति विजया वैष्णवीति च ॥१०॥

 चण्डिका कुमुदा कृष्णा माधवी कन्यकोत च ॥
 माया नारायणीशानी शारदेत्यम्बिकेति च ॥११॥


 अर्चिष्यन्तीति ॥ मनुष्या इति देवांशा दैत्यांशाश्च निवारिताः । देवांशास्तु भगवत्सेवका एव । दैत्याशांस्तु न भजन्त एव । अर्चनायां फलं हेतुः । सर्वासां कामनानां वराणामीश्वरीमिति । काम्याः सोपाया विषयाः । वरा अनुपायाः । स्त्रियः साक्षात्सेवा तस्या अपि बाधिकति तन्निवृत्त्यर्थं, धूपोपहारबलिनेति ॥ पूजायां साधनत्रयं निर्दिष्टम् । धूपो दूरादेव सम्भवति,उपहारश्च । दीपस्तु स्वतःप्रकाशमानाया उपयोगी न भवतीति