पृष्ठम्:श्रीसुबोधिनी.pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६९
जन्मप्रकरणम्अध्यायः । १ ।


नोक्तः । बलिः पशूनां दानम् । पूर्व काम्यादीनां प्रभुत्वे उक्तेऽप्यदातृत्वेऽभजनीया स्यादिति तद्दातृत्वमपि तस्यां भगवान् स्थापयति । सर्वकामवरान् प्रकर्पेण ददातीति । तस्याः सांनिध्यार्थ मन्त्ररूपाणि नामानि स्थानान्याह ॥ नामधेयानीति ।। कुर्वन्तीति वर्तमानसामीप्ये। नामस्वेव स्थानान्यपि प्रसिद्धानि भवन्ति । चकारादधिष्ठानानि ॥ नरा इति पूर्ववत् । भुवीति स्थापनाऽर्थम् ।।नामान्याह ।। दुर्गेति ॥ सर्वत्रति-शब्दो मन्त्रदेशभेदेन प्रसिद्धिप्रतिपादनार्थः । दुर्गा काश्यां प्रसिद्धा । भद्रकाली अवन्त्यां, विजया उत्कले, वैष्णवी महालक्ष्मी कुल्लापुरे, चण्डिका कामरूपदेशे, मायाशारदे उत्तरदेशे,अम्बिका अम्बिकावने,कन्यका कन्याकुमारी । अन्यान्यपि प्रसिद्धानि स्थानानि । तथैव मन्त्रा ज्ञेयाः ॥९॥ १० ॥ ११ ॥

  एवं तस्या नामान्युक्त्वा, शेषस्यापि नामान्याह-


 गर्भसंकर्षणात्तं वै प्राहुः संकर्षणं भुवि ॥
 रामेति लोकरमणाद्बलभद्रं बलोच्छ्र्यात् ॥ १२॥


 गर्भसङ्कर्षणादिति ॥ गर्भरूपस्य तस्य सङ्कर्षणात् संकर्षणः । सम्यक् कर्षणं यस्येति । पाहुरिति प्रमाणम् । भुवीत्यऽवतारदशायामेव । वस्तुतस्तु सङ्कर्षणश्चतुर्मूर्तेर्भगवतो द्वितीयः,सोऽप्यत्राविष्टस्तथापि लोका गर्भसङ्कर्षणादेव सङ्कर्षणं वदन्ति । नामान्तरमाह ॥ रामेति ।। लोकस्य रमणं यस्मात् । रमयतीति रामः । राम इति वक्तव्यऽविभक्तिकनिर्देशोऽसंमत्यर्थः । संबुद्धिरूपो वा व्यवहारार्थः । बलभद्रमपि प्राहुः । बलेन भद्र इति । बलोच्छ्र्याद्, न तु बलकार्यात् ॥ १२ ॥

 ईश्वरवाक्यादादेशानन्तरमेव तथा कृतवतीत्याह-