पृष्ठम्:श्रीसुबोधिनी.pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०७
जन्मप्रकरणम्अध्यायः



 अथ सर्वगुणोपेतः कालः परमशोभनः ॥
 यर्ह्येवाजनजन्मर्क्ष्ं शान्तर्क्षग्रहतारकम् ॥१॥


 जननं वर्णनं स्तोत्रे सान्त्वनं गमनं तथा ।* पड्विधो भगवानत्र तृतीये विनिरूप्यते ॥ रूपान्तरस्वीकरणमध्यायार्थ इहोदितः *। प्रतीयमानो भगवानिति पड्विध उच्यते ॥ अष्टभिश्च चतुर्भिर्वै दशभिश्चाष्टभिस्तथा *। चतुर्दशभिरष्टाभिः पडर्थाः क्रमतोऽत्र हि ॥ ऐश्वर्यमष्टधा यस्मादर्द्धमात्रा हरौ परा *। सार्द्धाष्टभिरतः प्रोक्तमैश्वर्यं सर्वमङ्गलम् । अधिकारिणि काले वै अनन्ता


अधिकारिणि काल इति । दक्षिणायनकृष्णपक्षनिशीथादिदोषेषु सर्वकर्मणि निन्दितेषु सत्सु सर्वगुणोपेतत्वोक्तिमूलेऽनुपपन्नेत्याशङ्क्या तत्तात्पर्यमाहुः ।। अधिकारिणीत्यादिना ।। तथाप्याधिकं तत्रानुप्रविष्टं, न तु तद्धानिरिति न्यायेनोक्तदोषानिवृत्तिस्तवस्थैवेतिचेत् ॥ अत्र बदामः ॥ नात्र पूर्वोक्ताधिभौतिककाले प्रादुर्भाव उच्यते,किन्त्वधुनैव लीलाविर्भावारम्भ इति लीलाकालो योऽग्रे भगवदात्मकत्वेन वाच्यः स प्रादुर्भूत इति । एवमेव देशादिरपि । अत एवाथशब्दो भिन्नप्रक्रमार्थक उक्तः। आधिभौतिकस्य तस्य जन्मानिमित्तत्वाभावादू भौतिकस्याधिष्ठानत्वेऽपि यथा वरदेयरात्रीणां तदा दिवापि प्रकटनं कृतमिति तद्रात्रीणां दिवारूपत्वमपीति न वक्तुं शक्यम् । तथास्याधिभौतिकतद्रूपत्वं न वक्तुं शक्यम् । एतज्ज्ञापनायैव शुकैस्तथोक्तम् । अन्यथा प्रकटे त्वदुक्तदूषणे सत्येवं न वदेत् । यद्यप्याधिभौतिक उत्तरायणत्वादिविशिष्टेऽप्येतत्प्रकटनं सम्भवति । तथापि यदेतादृशे तस्मिंस्तथा करणं तन्मार्यादामार्गात् पुष्टिमार्गोऽतिविलक्षणो बलिष्ठश्चेति ज्ञापनायेति जानीमः । अत एव सर्वदेवतासान्निध्यप्रयुक्तसर्वगुणोपेतत्वव्यावृत्यर्थं तद्गमनान्तरं भिन्नप्रक्रमेण इदमुक्तम् । असङ्कोचात् सर्वशब्देनैश्वर्यादय उच्यन्ते । तेन भगवदात्मकत्वमुक्तं भवति । तेन लीलाकालत्वमायाति ॥