पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७३
प्रबोधसुधाकरः।


 शोकायाथ तदर्पित श्रुतवते तोपाय च श्रेयसे ।।
स्वातत्र्याद्विषयाः प्रयान्ति यदमी शोकाय ते स्युश्विर
 सत्यक्ताः स्वयमेव चेत्सुखमय निःश्रेयस तन्वते ॥ ८४ ।।
विस्मृत्यात्मनिवासमुत्कटभवाटव्यां चिर पर्यट-
 न्सतापत्रयदीर्घदावदहनचालावलीव्याकुलः ॥
वल्गन्फल्गुषु सुप्रदीप्तनयनश्वेत कुरगो वला-
 दाशापाशवशीकृतोऽपि विषयव्याघ्रैर्मृषा हन्यते ॥ ८५ ॥

आत्मसिद्धिप्रकरणम् ।

उत्पन्नेऽपि विरागे विना प्रबोधं सुख न स्यात् ।
स भवेद्गुरूपदेशात्तस्माद्गुरुमाश्रयेत्प्रथमम् ॥ ८६ ॥
यद्यपि जलधेरुदक यद्यपि वा प्रेरकोऽनिलरतत्र |
तदपि पिपासाकुलित प्रतीक्षते चातको मेघम् ॥ ८७ ॥
त्रेधा प्रतीतिरुक्ता शास्त्राद्गुरुतस्तथात्मनस्तत्र !
शास्त्रप्रतीतिरादौ यद्वन्मधुरो गुडोऽस्तीति ॥ ८८ ॥
अग्रे गुरुप्रतीतिर्दूराद्गुडदर्शन यद्वत् ॥
आत्मप्रतीतिरस्माद्गुडभक्षणज सुख यद्वत् ॥ ८९ ॥
रसगधरूपशब्दस्पर्शा अन्ये पदार्थाश्च ।।
कस्मादनुभूयन्ते नो देहान्नेद्रियग्रामात् ।। ९० ॥
मृतदेहेद्रियवर्गो यतो न जानाति दाहज दुःखम् ॥
प्राणश्चेन्निद्रायां तरकरवाधा स किं वेत्ति ।। ९१ ॥
मनसो यदि वा विषयस्तद्युगपत्किं न जानाति ।।
तस्य पराधीनत्वाद्यतः प्रमादस्य कस्त्राता || ९२ ॥
गाढध्वातगृहातत. क्षितितले दीप निधायोञ्चल
 पचच्छिद्रमधोमुख हि कलश तस्योपरि स्थापयेत् ।।
तद्बाह्ये परितोऽनुरध्रममला वीणा च कस्तूरिका