पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७१
प्रबोधसुधाकरः।


परहानिर्लब्धि का व्यर्थ मनुजोऽतिपापभाग्भवति ॥१०॥
विषयेद्रिययोर्योगे निमेषसमयेन यत्सुख भवति ।।
विषये नष्टे दुःखं यावजीव च तत्तयोर्मध्ये ॥ ६१ ॥
हेयमुपादेय वा प्रविचार्य सुनिश्चित तस्मात् ॥
अल्पसुखस्य त्यागादनत्पदुःख जहाति सुधीः ॥ 6२ ॥
धीवरदत्तमहामिषमश्नन्वैसारिणो म्रियते ।।
तद्वद्विषयान्भुजन्कालाकृष्टो नरः पतति ॥ ६३ ॥
उरगग्रस्तार्धतनुर्भेकोऽश्नातीह मक्षिका शतशः ।
एवं गतायुरपि सन्विषयान्समुपार्जयत्यध. ॥ ६४ ॥

मनोनिग्रहप्रकरणम्

स्वीयोद्गमतीयवहा सागरमुपयाति नीचमार्गेण |
सा चेदुद्गम एव स्थिरा सती किं न याति बार्धित्वम् ॥ १५ ॥
एव मनः स्वहेतु विचारयत्सुस्थिर भवेदतः ।
न बहिर्बोदेति तदा किं नात्मत्व स्वय याति ॥ ६६ ॥
वर्षास्वभःप्रचयात्कूपे गुरुनिर्झरे पय' क्षारम् ।
ग्रीष्मेणैव तु शुष्के माधुर्यं भजति तत्रांभः ॥ ७ ॥
तद्विषयोद्रिक्त तम प्रधान मन कलुषम् ।
तस्मिन्विरागशुष्के शनकैराविर्भवेत्सत्त्वम् ।। ६८ ॥
य विषयमपि लषित्वा धावति बाह्येद्रियद्वारा ।
तस्याप्राप्तौ खिद्यति तथा यथा स्वं गत किंचित् ।। ६९ ॥
नगनगरदुर्गदुर्गमसरितः परितः परिभ्रमच्चेतः ।
यदि नो लभते विषय विषयत्रितमिव खिन्नमायाति ॥ ७ ॥
तुबीफल जलातर्बलादधः क्षिप्तमप्युपैत्यूर्ध्वम् ।
तद्वन्मनः स्वरूपे निहित यत्नाद्बहिर्याति ॥ ७१ ॥
इह या पूर्वभवे वा स्वकर्मणैवार्जित फल यद्यत् ।