पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७०
प्रबोधसुधाकरः।


पातकभरैरनेकैरर्थं समुपार्जयन्ति राजानः ॥
अश्वमतंगजहेतोः प्रतिक्षण नाश्यते सोऽर्थः ॥ ४९ ॥
राज्यांतराभिगमनाद्रणभंगान्मत्रिभृत्यदोषाद्वा ॥
विषशस्त्रगुप्तघातान्मग्नाश्चितार्णवे भूपाः ॥ ५० ॥

मनोनिंदाप्रकरणम्।

हसति कदाचिद्रौति भ्रांतं सद्दश दिशो भ्रमति ॥
हृष्ट कदापि रुष्ट शिष्टं दुष्टं च निंदति स्तौति ।। ५१ ॥
किमपि द्वेष्टि सरोष ह्यात्मानं श्लाघते कदाचिदपि ।।
चित्तं पिशाचमभवद्राक्षस्या तृष्णया व्याप्तम् || ५२ ।।
दंभाभिमानलोभैः कामक्रोधोरुमत्सरैश्चैतः ||
आकृष्यते समंतान्छ्वभिरिव पतितास्थिवन्मार्गे ॥ ५३ ॥
तस्माच्छुद्धविरागो मनोऽभिलपितं त्यजेदर्थम् ॥
तदनभिलषितं कुर्यान्निर्व्यापार ततो भवति ॥ ५४ ।।

विषयनिग्रहप्रकरणम् ।

संसृतिपारावारे ह्यगाधविषयोदकेन सपूर्णे ।।
नृशरीरमंबुतरणं कर्मसमीरैरितस्ततश्चलति ।। ५५ ।।
छिदैर्नवभिरुपेतं जीवो नौकापतिर्महानलसः ।।
छिद्राणामनिरोधान्जलपरिपूर्णं पतत्यधः सततम् ।। || ५६ ॥
छिद्राणां तु निरोधात्सुखेन पारं पर याति ।।
तस्मादिंद्रियनिग्रहमृते न कश्चित्तरत्यनृतम् ।। ५७ ॥
पश्यति परस्य युवतिं सकाममपि तन्मनोरथ कुरुते ॥
ज्ञात्वैव तदप्राप्तिं व्यर्थं मनुजोऽतिपापभाग्भवति ॥ ५८ ॥
पिशुनैः प्रकाममुदितां परस्य निंदा शृणोति कर्णाभ्याम् ।।
तेन परः किं म्रियते व्यर्थं मनुजोऽतिपापभाग्भवति ॥ ५९ ।।
अनृत परापवादं रसना वदति प्रतिक्षण तेन ॥