पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५८
अद्वैतानुभूतिः।


आत्मैवायं तथा भाति मायायोगात्प्रपंचवत् ॥
प्रपंचस्य विनाशेन स्वात्मनाशो नहि क्वचित् ॥ १३ ॥
जलादन्य इवाभाति जलोत्थो बुद्बुदो यथा ।
तथात्मनः पृथगिव प्रपंचोऽयमनेकधा ।। १४ ॥
यथा बुद्बुदनाशेन जलनाशो न कहिंचित् ।।
तथा प्रपंचनाशेन नाशः स्यादात्मनो न हि ।। १५ ।।
अहिनिर्ल्वयनीजातः शुन्यादिर्नाहिमाप्नुयात् ।।
तथा स्थूलादिसभूतः शुन्यादिर्नाप्नुयादिमम् ॥ १६ ॥
त्यक्ता त्वचमहिर्यद्वदात्मत्वेन न मन्यते ।।
आत्मत्वेन सदा ज्ञानी त्यक्तदेहत्रय तथा ॥ १७ ।।
अहिनिर्ल्बयनीनाशादहेर्नाशो यथा नहि ।।
देहत्रयविनाशेन नात्मनाशरतथा भवेत् ।। १८ ।।
तक्रादिलवणोपेतमज्ञैर्लवणवद्यथा ।।
आत्मा स्थूलादिसयुक्तो दूष्यते स्थूलकादिवत् ॥ १९ ॥
अयःकाष्ठादिकं यद्विद्भिवतियोगतः ॥
भाति स्थूलादिकं सर्वमात्मवत्स्वात्मयोगतः ॥ २० ॥
दाहको नैव दाह्यं स्याद्दाह्यं तद्वन्न दाहकः ॥
नैवात्मायमनात्मा स्यादनात्माय न चात्मकः ।। २१ ।।
प्रमेयादित्रय सार्थं भानुना घटकुडयवत् ॥
येन भाति स एवाहं प्रमेयादिविलक्षणः ॥ २२ ॥
भानुस्फुरणतो यत्फुरतीव घटादिकम् ॥
स्फुरतीव प्रमेयादिरात्मरफुरणतरतथा ।। २३ ।।
पिष्टादिर्गुलसंपर्कादुलवत्प्रीतिमान्यथा ||
आत्मयोगात्प्रमेयादिरात्मवत्प्रीतिमान्भवेत् ॥ २४ ॥
घटनीरान्नपिष्टानामुष्णत्वं वह्नियोगतः ॥