पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
॥ अद्वैतानुभूतिः ॥
५७
अद्वैतानुभूतिः।

अहमानदसत्यादिलक्षणः केवल शिवः ।।
सदानदादिरूप यत्तेनाहमचलोऽद्वयः ॥ १ ॥
अक्षिदोषाद्यथैकोऽपि द्वयवद्भाति चद्रमाः ।।
एकोऽप्यात्मा तथा भाति द्वयवन्मायया मृषा ॥ २ ॥
अक्षिदोषविहीनानामेक एव यथा शशी ॥
मायादोषविहीनानामात्मैवैकरतथा सदा ।। ३ ।।
द्वित्वं भात्यक्षिदोषेण चद्रे स्वे मायया जगत् ॥
द्वित्व मृषा यथा चद्रे मृषा द्वैत तथाऽऽत्मनि ॥ ४ ॥
आत्मनः कार्यमाकाशो विनात्मान न सभवेत् ।।
कार्यस्य पूर्णता सिद्धा किं पुनः पूर्णतात्मनः ॥ ५ ॥
कार्यभूतो यथाकाश एक एव नहि द्विधा ।। -
हेतुभूतस्तथात्मायमेक एव विजानतः ॥ ६ ॥
एकोऽपि द्वयवद्भाति यथाकाश उपाधित ॥ ७ ॥
कारणोपाधिचैतन्य कार्यसस्थाच्चितोऽधिकम् ।।
न घटानान्मृदाकाशः कुत्रचिन्नाधिको भवेत् ॥ ८ ॥
निर्गतोपाधिराकाश एक एव यथा भवेत् ।।
एक एव तथात्माय निर्गतोपाधिकः सदा ।। ९ ॥
आकाशादन्य आकाश आकाशस्य यथा नहि ॥
एकत्वादात्मनो नान्य आत्मा सिध्यति चात्मनः ॥ १० ॥
मेघयोगाद्यथा नीर करकाकारतामियात् ।।
मायायोगात्तथैवात्मा प्रपचाकारतामियात् ॥ ११ ॥
वर्षोपल इवाभाति नीरमेवाभ्रयोगतः ॥
वर्षोपलविनाशेन नीरनाशो यथा नहि ॥ १२ ॥.