पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०४
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।


व्योमेव पूर्णोऽस्मि विनिर्मलोऽस्मि
सदैकरूपोऽस्मि चिदेव केवलः ॥ ८४२ ।।
इति स्वमात्मानमवेक्षमाणः
प्रतीतदृश्य प्रविलापयन्सदा ।
जहाति विद्वान्विपरीतभावं
स्वाभाविक भ्रांतिक्शात्प्रतीतम् ।। ८४३ ॥
विपरीतात्मतास्फूर्तिरेव मुक्तिरितीर्यते ।
सदा समाहितस्यैव सैषा सिध्यति नान्यथा ॥ ८४४ ॥
न वेषभाषाभिरमुष्य मुक्तिर्या केवलाखडचिदात्मना स्थितिः ।
तत्सिद्धये स्वात्मनि सर्वदा स्थितो जह्यादहतां ममतामुपाधौ ॥८४५
स्वात्मतत्त्व समालब्य कुर्यात्प्रकृतिनाशनम् ।
तेनैव मुक्तो भवति नान्यथा कर्मकोटिभिः ।। ८४६ ।।
ज्ञात्वा देव सर्वपाशापहानिः
क्षीणैः क्लेशैर्जन्ममृत्युप्रहाणिः ।
इत्येवैषा वैदिकी वाग्ब्रवीति
क्लेशक्षत्यां जन्ममृत्युप्रहाणिम् ॥ ८४७ ॥
भूयो जन्माद्यप्रसक्तिर्विमुक्तिः
क्लेशक्षत्यां भाति जन्माद्यभावः |
क्लैशक्षत्या हेतुरात्मैकनिष्ठा
तस्मात्कार्या ह्यात्मनिष्ठा मुमुक्षोः ॥ ८४८ ॥
क्लेशाः स्युर्वासना एव जंतोर्जन्मादिकारणम् ।
ज्ञाननिष्ठाग्निना दाहे तासां नो जन्महेतुता ॥ ८४९ ॥
बीजान्यग्निप्रदग्धानि न रोहन्ति यथा पुनः ।
ज्ञानदग्धैस्तथा क्लेशैर्नात्मा सपद्यते पुनः ॥ ८५० ॥
तस्मान्मुमुक्षोः कर्तव्या ज्ञाननिष्ठा प्रयत्नतः ।