पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०३
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।


बुद्धेः साक्षी बुद्भिवृत्तेश्च साक्षी ।
चक्षुःश्रोत्रादीद्रियाणां च साक्षी
साक्षी नित्यः प्रत्यगेवाहमस्मि ॥ ८३६॥
 नाह स्थूलो नापि सूक्ष्मो न दीर्घो
नाह बालो नो युवा नापि वृद्धः ।
नाह काणो नापि मूको न षढ
साक्षी नित्यः प्रत्यगेवाहमास्मि ।। ८३७ ।।
नास्म्यागता नापि गता न हता
नाह कर्ता न प्रयोक्ता न वक्ता ।
नाह भोक्ता नो सुखी नैव दुःखी
साक्षी नित्यः प्रत्यगेवाहमस्मि ।। ८३८ ।।
नाह योगी नो वियोगी न रागी
नाह क्रोधी नैव कामी न लोभी ।
नाह बद्धो नापि युक्तो न मुक्त
साक्षी नित्य प्रत्यगेवाहमस्मि ॥ ८३९ ॥
नांतःप्रज्ञो नो बहिःप्रज्ञको वा
नैव प्रज्ञो नापि चाप्रज्ञ एषः ।
नाह श्रोता नापि मता न बोद्धा
साक्षी नित्यः प्रत्यगेवाहमस्मि ।। ८४० ॥
न मेऽस्ति देहेद्रियबुद्धियोगो
न पुण्यलेशोऽपि न पापलेशः ।
क्षुधापिपासादिषडूर्मिदूरः
सदा विमुक्तोऽस्मि चिदेव केवलः ।। ८४१ ।।
अपाणिपादोऽहमवागचक्षुषी
अप्राण एवास्म्यमना ह्यबुद्धिः ।