पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सर्ववेदान्तसिद्धान्तसारसंग्रहः । । शिष्यः- अपरः क्रियते प्रश्नो मयाय क्षम्यता प्रभो । अज्ञवागपराधाय कल्पते न महात्मनाम् ॥ ६३२ ॥ आत्मान्यः सुखमन्यच्च नात्मनः सुखरूपता । आत्मनः सुखमाशास्य यतते सकलो जनः ॥ ६३३ ॥ आत्मनः सुखरूपत्वे प्रयत्नः किमु देहिनाम् । एष मे सशयः स्वामिन् कृपयैव निररयताम् ॥ ६३४ ॥ श्रीगुरु:- आनदरूपमात्मानमज्ञात्वैव पृथग्जनः । बहिःसुखाय यतते न तु कश्चिद्विदन्बुधः ॥ ६३५ ॥ अज्ञात्वैव हि निक्षेप भिक्षामदति दुर्मतिः । स्ववेश्मनि निधिं ज्ञात्वा को नु भिक्षामटेत्सुधी. ।। ६३६ ।। स्थूल च सूक्ष्म च वपुः स्वभावतो दुःखात्मक स्वात्मतया गृहीत्वा । विस्मृत्य च स्व सुखरूपमात्मनः दुखप्रदेभ्य सुखमज्ञ इच्छति ॥ ६३७ ।। न हि दुःखप्रद वस्तु सुख दातु समर्हति । किं विष पिबतो जतोरमृतत्व प्रयच्छति ॥ ६३८ ॥ आत्मान्यः सुखमन्यच्चेत्येव निश्चित्य पामरः । बहिःसुखाय यतते सत्यमेव न सशयः ॥ ६३९ ।। इष्टस्य वस्तुनो ध्यानदर्शनाद्युपभुक्तिषु । प्रतीयते य आनदः सर्वेषामिह देहिनाम् ।। ६४० ॥ स वस्तुधर्मो नो यस्मान्मनस्येवोपलभ्यते । वस्तुधर्मस्य मनसि कथ स्यादुपलभनम् ॥ ६४१ ।। अन्यत्र त्वन्यधर्माणामुपलभो न दृश्यते ।