पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सर्ववेदान्तसिद्धान्तसारसंग्रहः । तस्मान्न वस्तुधर्मोऽयमानंदस्तु कदाचन ॥ ६४२ ॥ नाप्येष धर्मो मनसोऽसत्यर्थे तददर्शनात् । असति व्यंजके व्यंग्यं नोदेतीति न मन्यताम् ॥ ६४३ ।। सत्यर्थेऽपि च नोदेति ह्यानंदस्तूक्तलक्षणः । सत्यपि व्यंजके व्यंग्यानुदयो नैव संमतः ।। ६४४ ।। दुरदृष्टादिक नात्र प्रतिबंधः प्रकल्प्यताम् | प्रियस्य वस्तुनो लाभे दुरदृष्ट न सिध्यति ॥ ६४५ ।। तस्मान्न मानसो धर्मो निर्गुणत्वान्न चात्मनः । किं तु पुण्यस्य सानिध्यादिष्टस्यापि च वस्तुनः ।। ६४६ -1॥ सत्त्वप्रधाने चित्तेऽस्मिंस्त्वात्मैव प्रतिबिंबति । आनंदलक्षणः स्वच्छे पयसीव सुधाकरः ॥ ६४७ ।। सोऽयमाभास आनंदश्चित्ते यः प्रतिबिंबितः । पुण्योत्कर्षापकर्षाभ्या भवत्युच्चावचः स्वयम् ।। ६४८ ।। सार्वभौमादिब्रह्मान्त श्रुत्या यः प्रतिपादितः । स क्षयिष्णुः सातिशयः प्रक्षीणे कारणे लयम् ॥ ६४९ ।। यात्येष विषयानंदो यस्तु पुण्यैकसाधनः । ये तु वैषयिकानंदं भुजते पुण्यकारिणः ॥ ६५० ॥ दुःख च भोगकालेऽपि तेषामते महत्तरम् । सुखं विषयसंपृक्त विपसपृक्तभक्तवत् ॥ ६५१ ॥ भोगकालेऽपि भोगान्ते दुःखमेव प्रयच्छति सुखमुच्चावचत्वेन क्षयिष्णुत्वभयेन च ॥ ६५२ ।। भोगकाले भवेन्नॄणां ब्रह्मादिपदभाजिनाम् । राजस्थानप्रविष्टानां तारतम्य मतं यथा || ६५३ ॥ तथैव दुःख जतूना ब्रह्मादिपदभाजिनाम् | न कांक्षणीय विदुषा तस्माद्वैषयिकं सुखम् ॥ ६५४ ।।