पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सर्ववेदान्तसिद्धान्तसारसंग्रहः । कदापि नासमित्यस्मादात्मनो नित्यता मता ।। ६१३ ॥ आयातासु गतासु शैशवमुखावस्थासु जाग्रन्मुखाः स्वन्यास्वप्यखिलासु वृत्तिषु धियो दुष्टास्वदुष्टास्वपि ।। गंगाभंगपरंपरासु जलवत्सत्तानुवृत्तात्मन- स्तिष्ठत्येव सदा स्थिराहमहमित्येकात्मता साक्षिणः ।। ६१४ ।। प्रतिपदमहमादयो विभिन्नाः क्षणपरिणामितया विकारिणस्ते । न परिणतिरमुष्य निष्कलत्वा- दयमविकार्यत एव नित्य आत्मा ।। ६१५ ।। यः स्वममद्राक्षमह सुख यो- ऽस्वाप्स स एवास्म्यथ जागरूकः । इत्येवमच्छिन्नतयानुभूयते सत्तात्मनो नास्ति हि संशयोऽत्र ।। ६१६ ॥ श्रुत्युक्ताः षोडशकलाश्चिदाभासस्य नात्मनः । निष्कलत्वान्नास्य लयस्तस्मान्नित्यत्वमात्मनः ।। ६१७ ॥ जडप्रकाशकः सूर्य प्रकाशात्मैव नो जडः । बुद्ध्यादिभासकस्तस्माञ्चित्स्वरूपस्तथा मतः ।। ६१८ ॥ कुड्यादेस्तु जडस्य नैव घटते भान स्वतः सर्वदा सूर्यादिप्रभया विना क्वचिदपि प्रत्यक्षमेतत्तथा । बुद्ध्यादेरपि न स्वतोऽरत्यणुरपि स्फूर्तिविनैवात्मना सोऽय केवलचिन्मयश्रुतिमतो भानुर्यथा रुड्मयः ।। ६१९ ।। स्वभासने वान्यपदार्थभासने नार्कः प्रकाशातरमीषदिच्छति । स्वबोधने वाप्यहमादिबोधने तथैव चिद्धातुरयं परात्मा ।। ६२० ।। अन्यप्रकाश न किमप्यपेक्ष्य यतोऽयमाभाति निजात्मनैव । ततः स्वयज्योतिरय चिदात्मा न ह्या मभाने परदीप्त्यपेक्षा || ६२११॥ .