पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१७२ सर्ववेदान्तसिद्धान्तसारसंग्रहः । अत एवात्मबुद्धिर्देहाक्षादावनात्मनि । मूढानां प्रतिबिंबादौ बालानामिव दृश्यते । सादृश्यं विद्यते बुद्धावात्मनोऽध्यासकारणम् ॥ ४८४ ॥ अनात्मन्यहमित्येव योऽयमध्यास ईरितः । स्यादुत्तरोत्तराध्यासे पूर्वपूर्वस्तु कारणम् ॥ ४८५ ॥ सुप्तिमूर्च्छोत्थितेष्वेव दृष्टः संसारलक्षणः । अनादिरेषाविद्यातः संस्कारोऽपि च तादृशः ।। ४८६ ।। अध्यासबाधागमनस्य कारण शृणु प्रवक्ष्यामि समाहितात्मा । यस्मादिद प्राप्तमनर्थजातं जन्माप्ययव्याधिजरादिदुःखम्॥४८७ आत्मोपाधेरविद्याया अस्ति शक्तिद्वयं महत् । विक्षेप आवृतिश्चेति याभ्यां ससार आत्मनः ॥ ४८८ ।। आवृतिस्तमसः शक्तिस्तद्धयावरणकारणम् | मूलाविद्येति सा प्रोक्ता यया समोहितं जगत् ।। ४८९ ॥ विवेकवानप्यतियौक्तिकोऽपि श्रुतात्मतत्त्वोऽपि च पडितोऽपि । शक्त्या यथा सवृतबोधदृष्टिरात्मानमात्मस्थमिम न वेद ।।४९०॥ विक्षेपनानी रजसस्तु शक्तिः प्रवृत्तिहेतुः पुरुषस्य नित्यम् । स्थूलादिलिंगान्तमशेपमेतद्यया सदात्मन्यसदेव सूयते ॥४९१।। निद्रा यथा पुरुषमप्रमत्त समावृणोतीयमपि प्रतीचम् । तथावृणोत्यावृतिशक्तिरतर्विक्षेपशक्तिं परिजृंभयन्ती ॥ ४९२ ।। शक्त्या महत्यावरणाभिधानया समावृते सत्यमलस्वरूपे । पुमाननात्मन्यहमेष एवेत्यात्मत्वबुद्धिं विदधाति मोहात्॥४९३॥ यथा प्रसुप्तिप्रतिभासदेहे स्वात्मत्वधीरेप तथा ह्यनात्मनः । जन्माप्ययक्षुद्भयतृदछ्मादीनारोपयत्यात्मनि तस्य धर्मान् ॥४९४ विक्षेपशक्त्या परिचोद्यमानः करोति कर्माण्युभयात्मकानि । भुंजान एतत्फलमप्युपात्त परिभ्रमत्येव भवाबुराशौ ॥ ४९५ ॥