पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सर्ववेदान्तसिद्धान्तसारसंग्रहः। १७३ अध्यासदोपात्समुपागतोऽय ससारबध प्रबलप्रतीचः। यद्योगतः क्लिश्यति गर्भवासजन्माप्ययक्लेशभयैरजस्त्रम् ||४९६॥ अध्यासो नाम खल्वेष वस्तुनो योऽन्यथाग्रहः । स्वाभाविकभ्रान्तिमूल ससृतरादिकारणम् ।। ४९७ ।। सर्वानर्थस्य तद्बीज योऽन्यथाग्रह आत्मनः । ततः ससारसपात सततक्लेशलक्षणः ॥ ४९८ ॥ अध्यासादेव ससारो नष्टेऽध्यासे न दृश्यते | तदेतदुभय स्पष्ट पश्य त्व बद्धमुक्तयोः ।। ४९९ ।। बद्ध प्रवृत्तितो विद्धि मुक्त विद्धि निवृत्तितः । प्रवृत्तिरेव ससारो निवृत्तिर्मुक्तिरिष्यते ॥ ५०० ।। आत्मनः सोऽयमध्यासो मिथ्याज्ञानपुरःसरः । असत्कल्पोऽपि ससार तनुते रज्जुसर्पवत् ॥ ५०१ ।। उपाधियोगसाम्येऽपि जीववत्परमात्मनः । उपाधिभेदान्नो बधस्तत्कार्यमपि किंचन ।। ५०२ ।। अस्योपाधिः शुद्धसत्वप्रधाना माया यत्र त्वस्य नारत्यल्पभावः । सत्त्वस्यैवोत्कृष्टता तेन बधो नो विक्षेपरतत्कृतो लेशमात्रः॥५०३ सर्वज्ञोऽप्रतिवद्धबोधविभवरतेनैव देवः स्वय माया स्वामवलव्य निश्चलतया स्वच्छदवृत्तिः प्रभुः । सृष्टिस्थित्यदनप्रवेशयमनव्यापारमात्रेच्छया कुर्वन्क्रीडति तद्रजस्तम उभे सस्तभ्य शक्त्या स्वया ॥५०४॥ तस्मादावृतिविक्षेपौ किंचित्कतुं न शक्नुतः । स्वयमेव स्वतत्रोऽसौ तत्प्रवृत्तिनिरोधयोः ॥ ५०५ ॥ तमेव साधीकर्मेति श्रुतिर्वक्ति महेशितुः | निग्रहानुग्रहे शक्तिरावृतिक्षपयोर्यतः ॥ ५०६ ॥ राजसस्तमसश्चैव प्राबल्यं सत्त्वहानतः । 5