पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सर्ववेदान्तसिद्धान्तसारसंग्रहः । विपरीततयाध्यस्य संसरन्ति विमोहतः ॥ ४६१ ) भ्रान्त्या मनुष्योऽहमहं द्विजोऽह तत्ज्ञोऽहमज्ञोऽहमतीव पापी । भ्रष्टोऽस्मि शिष्टोऽस्मि सुखी च दुःखी- त्येवं विमुह्यात्मनि कल्पयन्ति ॥ ४६२ ॥ अनात्मनो जन्मजरामृतिक्षुधा- तृष्णासुखक्लेशमयादिधर्मान् । विपर्ययेण ह्यतथाविधेऽस्मि- नारोपयन्त्यात्मनि बुद्धिदोषात् ।। ४६३ ॥ भ्रांत्या यत्र यदध्यासस्तत्कृतेन गुणेन वा। दोषेणाप्यणुमात्रेण स न सवध्यते क्वचित् ।। ४६४ ॥ कि मरुन्मृगतृष्णाबुपूरेणार्द्रत्वमृच्छति । दृष्टिसंस्थितपीतेन शखः पीतायते किमु ॥ ४६५ ॥ शिष्यः-- प्रत्यगात्मन्यविषयेऽनात्माध्यासः कथं प्रभो ॥ ४६६ ॥ पुरो दृष्टे हि विषयेऽध्यस्यन्ति विषयान्तरम् । तदृष्टं शुक्तिरज्जादौ सादृश्याद्यनुवधतः ॥ ४६७ ॥ परत्र पूर्वदृष्टस्यावभासः स्मृतिलक्षणः । अध्यासः स कथं स्वामिन् भवेदात्मन्यगोचरे ॥ ४६८ }} नानुभूतः कदाप्यात्माननुभूतस्य वस्तुनः । सादृश्य सिध्यति कथमनात्मनि विलक्षणे ॥ ४६९ ॥ अनात्मन्यात्मताध्यास कथमेष समागतः । निवृत्तिः कथमेतस्य केनोपायेन सिध्यति ।। ४७० ॥ उपाधियोग उभयोः सम एवेगजीवयोः । जीवस्यैव कथं वंधी नेश्वरस्यास्ति तत्कथम् ॥ ४७१ ॥ --