पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

यत्रोपभुक्ते विषयानथूलानेष महामतिः । अह ममेति सैपास्यावस्था जाग्रदितीर्यते ॥ ४५० ॥ एतत्समष्टिव्यष्ट्योश्चोभयोरप्यभिमानिनोः । तद्विश्ववैश्वानरयोरभेद पूर्ववन्मतः ॥ ४५१ ॥ स्थूलसूक्ष्मकारणाख्याः प्रपचा ये निरूपिता । ते सर्वेऽपि मिलित्वैकः प्रपचोऽपि महान्भवेत् ॥ ४५२ ॥ महाप्रपचावच्छिन्न विश्वप्राज्ञादिलक्षणम् । विराडादीशपर्यत चैतन्य चैकमेव तत् ।। ४५३ ।। यदनाद्यतमव्यक्त चैतन्यमजमक्षरम् । महाप्रपचेन सहाविविक्त सदयोऽग्निवत् ।। ४५४ ॥ तत्सर्व खल्विद ब्रह्मोत्यस्य वाक्यस्य पडितैः । वान्यार्थ इति निर्णीत विविक्तं लक्ष्य इत्यपि ।। ४५५ ॥ स्थूलाद्यज्ञानपर्यत कार्यकारणलक्षणम् । दृश्य सर्वमनात्मेति विजानीहि विचक्षण || ४५६ ।। अतःकरणतद्वृत्तिद्रष्टृ नित्यमविक्रियम् । चैतन्य यत्तदात्मेति बुद्ध्या बुध्यस्व सूक्ष्मया ॥ ४५७ ॥ एष प्रत्यक्स्वप्रकाशो निरशोऽसग शुद्ध सर्वदैकस्वभावः । नित्याखडानंदरूपो निरीह साक्षी चेता केवलो निगुणश्च ॥४५८॥ नैव प्रत्यग्जायते वर्धते नो किचिन्नापक्षीयते नैव नाशम् । आत्मा नित्यः शाश्वतोऽय पुराणो नासौ हन्यो हन्यमाने शरीरे॥४५९।। जन्मास्तित्वविवृद्धयः परिणतिश्चापक्षतिर्नाशन दृश्यस्यैव भवन्ति षड्विकृतयो नानाविधा व्याधयः । स्थूलत्वादि च नीलताद्यपि मितिर्वर्णाश्रमादिप्रथा दृश्यन्ते वपुषो न चात्मन इमे तद्विक्रियासाक्षिणः ॥ ४६० ॥ अस्मिन्नात्मन्यनात्मत्वमनात्मन्यात्मता पुनः ।