पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४८
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।


पुंसः प्रधानसिद्धयर्थमगस्याश्रयणं ध्रुवम् |
कर्तव्यमंगहीन चेत्प्रधान नैव सिध्यति ॥ २०७॥
सन्यसेत्सुविरक्तः सन्निहामुत्रार्थतः सुखात् ।
अविरक्तस्य सन्यासो निष्फलोऽयाव्ययागवत् ॥ २०८ ॥
सन्यस्य तु यतिः कुर्यान्न पूर्वविषयस्मृतिम् |
तां तां तत्स्मरणे तस्य जुगुप्सा जायते यतः ॥ २०९ ॥
गुरुवेदान्तवाक्येषु बुद्धिा निश्चयात्मिका ।
सत्यमित्येव सा श्रद्धा निदान मुक्तिसिद्धये ॥ २१० ॥
श्रद्धावतामेव सतां पुमर्थः समीरितः सिध्यति नेतरेषाम् ।
उक्त सुसूक्ष्म परमार्थतत्त्वं श्रद्धत्स्व सोम्येति च वक्ति वेदः ॥ २११ ।
श्रद्धाविहीनस्य तु न प्रवृत्तिः प्रवृत्तिशून्यस्य न साध्यसिद्धिः ।
अश्रद्धयैवाभिहताश्च सर्वे मज्जन्ति ससारमहासमुद्रे ॥ २१२ ॥
देवे च वेदे च गुरौं च मत्रे तीर्थे महात्मन्यपि भेषजे च ।
श्रद्धा भवत्यस्य यथा यथान्तस्तथा तथा सिद्धिरुदति पुंसाम् ॥२१३॥
अस्तीत्येवोपलब्धव्यं वस्तुसद्भावनिश्चयात् ।
सद्भावनिश्चयस्तत्र श्रद्धया शास्त्रसिद्धया ॥ २१४ ॥
तस्मान्द्रद्धा सुसपाद्या गुरुवेदान्तवाक्ययोः ।
मुमुक्षोः श्रद्दधानस्य फल सिध्यति नान्यथा ॥ २१५ ॥
यथार्थवादिता पुंसां श्रद्धाजननकारणम् ।
वेदस्येश्वरवाक्यत्वाद्यथार्थत्वे न संशयः ॥ २१६ ॥
मुक्तस्येश्वररूपत्वाट्ठरोवागपि तादृशी।
तस्मात्तद्वाक्ययोः श्रद्धा सतां सिध्यति धीमताम् ॥ २१७ ॥
श्रुत्युक्तार्थावगाहाय विदुपा ज्ञेयवस्तुनि ।
चित्तस्य सम्यगाधानं समाधानमितीर्यते ॥ २१८॥
चित्तस्य साध्यैकपरत्वमेव पुमर्थसिद्धेनियमेन कारणम् ।