पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४०
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।


ब्रह्मादिस्थावरान्तेषु वैराग्य विपयेष्वनु ।
यथैव काकविष्टायां वैराग्यं तद्धि निर्मलम् || ११३ ॥
बाह्यमाभ्यंतर चेति द्विविध शौचमुच्यते ।
मृजलाभ्यां कृतं गोचं बाह्य शारीरक स्मृतम् ॥ ११४ ।।
अज्ञानदूरीकरण मानस शौचमातरम् ।
अत गौचे स्थिते सम्यग्बाह्य नावश्यक नृणाम || ११५ ॥
ध्यानपूजादिक लोके द्रष्टर्येव करोति यः ।
पारमार्थिकधीहीन स दभाचार उन्यते ॥ ११६॥
पुंसस्तथानाचरणमदभिन्य विदुर्बुधाः ।
यत्स्वेन दृष्ट सम्यक्च श्रुत तस्यैव भाषणम् ॥ ११७ ॥
सत्यमित्युन्यते ब्रह्म सत्यमित्यभिभाषणम् ।
देहादिषु स्वकीयत्वदृढबुद्धिविसर्जनम् ।। ११८ ।।
निर्ममत्व स्मृत येन कैवल्य लभते बुधः ।
गुरुवेदान्तवचनैनिश्चितार्थे दृढस्थितिः ॥ ११९ ॥
तदेकवृत्त्या तस्थैर्य नैश्चल्य न तु वर्मणः ।
विद्यैश्वर्यतपोरूपकुलवर्णाश्रमादिभिः ।। १२० ।।
सजाताहकृतित्यागस्त्वभिमानविसर्जनम् ।
त्रिभिश्च करणै सम्यग्घित्वा वैपयिकी क्रियाम् || १२१ ।।
स्वात्मैकचिंतन यत्तदीश्वरध्यानमीरितम् ।
छायेव सर्वदा वासो ब्रह्मविद्भिः सहस्थितिः ।।१२२॥
यद्यदुक्त ज्ञानशास्त्रे श्रवणादिकमेषु यः ।
निरतः कर्मधीहीनः ज्ञाननिष्ठः स एव हि ॥१२३॥
धनकांतावरादीनां प्राप्तकाले सुखादिभिः ।
विकारहीनतैव स्यात्सुखदुःखसमानता ||१२४||
श्रेष्ठं पूज्य विदित्वा मां मानयन्तु जना भुवि ।