पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४७
सर्ववेदान्तसिद्धान्तसारसंग्रहः।


इत्यासक्त्या विहीनत्व मानानासतिरुच्यते ।।१२५||
सन्चितनस्य सबाधो. विन्नोऽय निर्जने ततः ।
स्थेयमित्येक एवास्ति चेत्सवैकान्तशीलता ॥१२६॥
ससारबधनिर्मुक्तिः कदा झटिति मे भवेत् ।
इति या सुदृढा बुद्धिरीरिता सा मुमुक्षुता ॥१२७।।
ब्रह्मचर्यादिभिर्धमबुद्धर्दोपनिवृत्तये ।
दडन दम इत्याहुर्दमशब्दार्थकोविदाः ॥१२॥
तत्तवृत्तिनिरोधेन बाह्येद्रियविनिग्रहः ।
योगिनो दम इत्याहुर्मनस शातिसाधनम् ॥१२९॥
इद्रियेष्विद्रियार्थेषु प्रवृत्तेषु यदन्छया ।
अनुधावति तान्येव मनो वायुमिवानलः ॥ १३० ॥
इद्रियेपु निरुद्धेषु त्यक्त्वा वेग मन स्वयम् ।
सत्त्वभावमुपादत्ते प्रसादस्तेन जायते ॥
प्रसने सति चित्तेऽस्य, मुक्ति सिध्यति नान्यथा ॥ १३१ ॥
मन प्रसादस्य निदानमेव निरोधन यत्सकलेद्रियाणाम् ।
बाह्येद्रिये साधु निरुध्यमाने बाह्यार्थभौगो मनसो वियुज्यते१३२
तेन स्वदौष्टय परिमुन्य चित्त शनैः शनैः शान्तिमुपाददाति ।
चित्तस्य बाह्याविमोक्षमेव मोक्ष विदुर्मोक्षणलक्षणज्ञाः।।१३३॥
दम विना साधु मन प्रसादहेतु न विझ' सुकर मुमुक्षोः ।
दमैन चित्त निजदोपजात विसृय भान्ति समुपैति शीघ्रम् ||१३४॥
प्राणायामाद्भवति मनसो निश्चलत्व प्रसादो
यस्याप्यस्य प्रतिनियतदिन्देशकालाद्यवेक्ष्य ।
सम्यादृष्टया कचिदपि तया नो दमो हन्यते त-
स्कुर्याद्धीमान्दममनलसश्चित्तशान्त्यै प्रयत्नात् ।। १३५ ॥
सर्वेद्रियाणा गतिनिग्रहेण भोग्येषु दोपाद्यवमर्शनेन ।