पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३६
सर्ववेदान्तसिद्धान्तसारसंग्रह।


विशिष्टगुणबाधनं कृपणधीसमाराधनं
न मुक्तिगतिसाधनं भवति नापि हृन्छोधनम् ॥७०॥
राज्ञो भयं चोरभय प्रमादाद्भयं तथा ज्ञातिभय च वस्तुतः ।
धन भयग्रस्तमनर्थमूल यतः सतां नैव सुखाय कल्पते ॥७१॥
अर्जने रक्षणे दाने व्यये वापि च वस्तुतः ।
दुःखमेव सदा नृणां न धन सुखसाधनम् ॥७२॥
सतामपि पदार्थस्य लाभाल्लोभः प्रवर्धते ।
विवेको लुप्यते लोभात्तस्मिल्लुप्ते विनश्यति ।।७।।
दहत्यलाभे निःस्वत्वं लाभे लोभी दहत्यमुम् ।
तस्मात्संतापक वित्त कस्य सौख्य प्रयच्छति ॥७४||
भोगेन मत्तता जतोर्दानेन पुनरुद्भवः ।
वृथैवोभयथा वित्त नारत्येव गतिरन्यथा १७५||
धनेन मददृद्धिः स्यान्मदन स्मृतिनाशनम् ।
स्मृतिनाशामुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥७६॥
सुखयति धनमेवेत्यंतराशापिशान्या
दृढतरमुपगूढो मूढलोको जडात्मा ।
निवसति तदुपान्ते सतत प्रेक्षमाणो
व्रजति तदपि पश्चात्प्राणमेतस्य हृत्वा ७७||
संपन्नोंऽधवदेव किंचिदपरं नो वीक्षते चक्षुपा
सद्भिर्जितमार्ग एव चरति प्रोत्सारितो बालिशैः ।
तस्मिन्नेव मुहुः स्खलन्प्रतिपद गत्वान्धकूपे पत-
त्यस्यांधत्वनिवर्तकौपधमिदं दारिद्रयमेवांजनम् ॥७॥
लोभः क्रोधश्च दंभश्च मदो मत्सर एव च ।
वर्धते वित्तसप्राप्त्या कथ तच्चित्तशोधनम् ॥७९॥
अलाभाद्विगुणं दुःख वित्तस्य व्ययसभवे ।