पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शतश्लोकी।

तद्दृश्यं मानसं दृक्परिणतविषयाकारधीवृत्तयोऽपि दृश्या दृग्रूप एव प्रभुरिह स तथा दृश्यते नैव साक्षी ॥ ९२ ॥

रज्ज्वज्ञानाद्भुजंगस्तदुपरि सहसा भाति मंदांधकारे स्वात्माज्ञानात्तथाऽसौ भृश्यमसुखमभूदात्मनो जीवभावः । आप्तोक्त्याऽहिभ्रमान्ते स च खलु विदिता रज्जुरेका तथाऽहं कूटस्थो नैव जीवो निजगुरुवचसा साक्षिभूतः शिवोऽहम् ॥ ९४ ॥

किं ज्योतिस्ते वदस्वाहनि रविरिह मे चन्द्रदीपादिरात्रौ स्यादेवं भानुदीपादिकपरिकलने किं तव ज्योतिरस्ति । चक्षस्तन्मीलने किं भवति सुतरां धीर्धियः किं प्रकाशे तत्रैवाहं ततस्त्वं तदसि परमकं ज्योतिरस्मि प्रभोऽहम् ॥ ९५ ॥

कंचिन्त्कालं स्थितः कौ पुनरिह भजते नैव देहादिसङ्घं यावत्प्रारब्धभोगं कथमपि स सुखं चेष्टतेऽसङ्गबुद्ध्या । निर्द्वन्द्वो नित्यशुद्धो विगलितममताऽहंकृतिर्नित्यतृप्तो ब्रह्मानन्दस्वरूपः स्थिरमतिरचलो निर्गताशेषमोः ॥ ९६ ॥

जीवात्मब्रह्मभेदं दलयति सहसा यत्प्रकाशैकारूपं विज्ञानं तच्च बुद्धौ समुदितमातुलं यस्य पुंसः पवित्रम् । माया तेनैव तस्य क्षयमुपगमिता संसृते कारणं या नष्टा मा कार्यकत्री पुनरपि भविता नैव विज्ञानमात्रात् ॥ ९७ ॥

विश्वं नेति प्रमाणाद्विगलितजगदाकारभानस्त्यजेद्वै पीत्वा यद्वत्फलांभस्त्यजति च सुतरां तत्फलं सौरभाढ्यम् । सम्यक्सच्चिद्घनैकामृतसुखकवलास्वादपूर्णौ हृदाऽसौ ज्ञात्वा निस्सारमेवं जगदखिलमिदं स्वप्रभः भातचित्तः ॥ ९८ ॥

क्षीयन्ते चास्य कर्माण्यपि खलु हृदयग्रन्थिरुद्भिद्यते वै छिद्यन्ते संशया ये जनिमृतिफलदा दृष्टमात्रे परेशे । तस्मिंश्चिन्मात्ररूपे गुणमलरहिते तत्वमस्यादिलक्ष्ये