पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवैखानसमुह्मसूत्रम् विष्टस कुमारभोजनं कुर्यात् । प्रवासागमनपिण्डवर्धनयोः होमो नास्ति । अनुपदिष्टत्वात्, अन्नप्राशनान्तर्भूतत्वेनोपदिष्टत्वाच । यदि होमः चिकीर्षित तर्हि कालान्तरे वा क्रियतां तदा अन्नप्राशनोक्तवत् धाताद्विमूलहोमः । (इति द्वाविंशः खण्डः) (अथ त्रयोविंशः खण्डः) अथ चौलकम् । नपितायान्नदानं गुवे गवादिदक्षिणा देवानां पूजनं ब्राह्मणानामन्नेन तर्पणमिित यथासंभवं सर्वेषु संस्कारेषु नियमेन विधीयते । इति षष्ठः पटलः (इति त्रयोविंशः खण्डः) ।