पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ नमः खण्ड

) धम्र्ये सदाचारम् ॥ १ ॥ निीती दक्षिणे गें यज्ञोपवीतं कृत्वोत्फुटिकमासीनः अहन्युदङ्मुखो रात्रौ दक्षिणामुखः तृणैरन्तरिते मूत्रपुरीौ विमृ निवीीत्यादि । उकुटिकमासीनः – ऊञ्जानुरासीनः । तृणैरन्तरिते देशे न केवलं भूम्याम् । नद्यां गोष्ठ पथि छायायां भस्मन्यप्सु कुशे दर्भ वा नाचरेत्॥३ नधां वेत्यादि । बा शब्दस्सर्वत्र संबद्धयते । गोविप्रोदकाभिवायवर्क तारेन्दूनषश्यन् कुर्यात् ।। ४ ।। वामहस्तेन लिंगं संगृहोत्थायोदकस्य पार्थे तथाऽऽसीनी ब्रह्मचारी गृहस्थोऽपि शिश्ने द्विः हस्तयोश्च द्वि:ि गुदे षट्कृत्वो मृदं दन्वोद्धृतैरेव जलैः शौचं कुर्यात् ॥ ५ ॥ वामहस्तेनेत्यादि । मृदं-मार्गदेवालयवल्मीकमूषिकोत्थवहिारसमीप बिलान्तस्थादिमृदं वालुकाश्च वर्जयित्वा अन्यत्र शुद्धां मृदं शौचार्थमादाय नदीतटाककूपानां पूर्वालामे परं जलाशयमभिगम्य तदुदकसमीपे आसीनः । द्वैरेव जैः- अन्तर्जले ौनिषेधात् । करं वामं दशकृत्वः कारावुभौ च तथा मृदाऽद्भिः प्रक्षा लयेन् ।। ६ ॥ वनस्थस्य भिक्षोथैतत् द्विगुणं भवति ॥ ७॥