पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमखिकृत-सास्पर्यचिन्तामणिसहितम् पश्चिमान् वा बलेिहरणे प्राचीनावीती दद्यात् । अयं पितृयज्ञ । तत उपवीती अप उपस्पृशेत् । भुवंगै -द्वारबन्धस्य अन्धः स्थितयोः दक्षिणोत्तरपट्टिकयो रधिदेवौ । कुत्स्याः हसन्धाः ! पक्षयोः मृत्पिङयोः । पेषण्यां शिलायां, तत्पुत्रि कायां पेषण्योरुभयोरिति । हुतशेषं घेोद्धा विभज्य मन्त्रोक्तानां प्रत्येकमेकीकृत्य बा निर्वपति । बलेिकाले सर्वत्र पूर्वमुदकं ततो बलिं पुनरुदकश्च दद्यात् । आचम्य, पूर्ववत् परिषेचनम् । भूणुकामा-वर्धिष्णुः । भर्तयशक्तौ प्रवसति वा रात्रौ दिवा च होमं विना अमन्त्रकं तत्तत् स्थाने बलिं दद्यात् । तदुक्तं प्रायश्चित्ते । 'शन्नावमन्त्रकं बहिरणं पली वा करोति । इति । अयं भूतयज्ञः । वैश्वदेवकाले प्राप्तमतिथिभन्नादिना शक्तच॥ तर्पयेदिति मनुष्ययज्ञः । अल विशेष । रात्रौ विवाहश्चेत् अकृत्वा अन्तहोमं अमिं विना वश्वा सह वरो वधूगृहं प्रविश्य पूर्ववत् चतुर्थीव्रतं संकल्प्य चन्द्रादिदर्शनं कृत्वा तदानी मेव पूर्ववत् स्थालीपाकादीन् कुर्यात् । दिा विवाहश्चदन्तहोमं कृत्वा वैवाहिकं कर्म परिसमाप्य तस्यामेव रञ्याम िवध्वा सह आदाय चतुर्थीनतं संकल्प्य ध्रुवदर्शनान्तं कृत्वा पश्चादाधारं हुत्वा आग्नेयस्थालीपाकादीन् कुर्यात् । अपररात्र्यां विवाहश्रेत् तदा वैवाहिकं कर्म परिसमाप्य तदानीमेव चतुर्थी ब्रनं संकल्प्य आग्नेयस्थालीपाकादीन् कुर्यात् । प्रागुदयाचेदिदं परेऽहनि रात्र्यां चतुर्थीबासादिकं कर्तव्यम् । अथवा चतुर्थेऽहन्येव रात्र्यां स्थालीपाकादीन् कुर्यात् । इति तृतीयः पटलः (इति सप्तमः खण्डः) अथ चतुर्थः पटल: (अथ अष्टमः स्खण्डः) तदेवं यथेोतं चतुर्थीव्रतं; तस्मात् । हविष्यं क्षारलवणवमोदनम् । चतुर्थीवासोत्कचमदिशायिनैौ च स्याताम्। अलंकृत्य पर्ती स्वयं चालंकृत्य प्राच्यामुदीच्यां वा चतुर्थी ” वासास्तरणे उपवेश्य-शाययित्वा । उपगच्छेत् – समीपं गच्छेत् । 'युप्रजा म्त्वाये 'त्यादिना मतान्तरेण उपरामनादिकमुच्यते । (इति अष्टमः खण्डः) (अथ नवमः खण्डः) उक्तौ निषेकः संस्कारः । अथ त्रिरात्रमित्यादि । निषेकानन्तरं यदा आर्तवं पश्यति तदा भक्ष्वासाः स्यात्। धौतवस्त्रादि न धग्येत् । शानादीनि वर्जयेत् । आदिशब्देन तैलाभ्यञ्जन्दन्तधावनभूविलेखन