पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारथौथे :- 'सात्क्केि तु सदाऽऽधिक्यं पूजनं मम नारद । विद्धि वैखानसे दतं दानं ब्रह्मविदस्तथा ।।' इति बासिध्ठरामायणे:- कृताभिषेकस्सन्तुष्टस्सामात्यस्ससुहृज्जन । पूजयामास धर्मात्मा रामो वैखानसान्मुनीन्।।' इति खानसानां पञ्चकालपरायणत्वम् शाण्डिल्यस्मृतौः-*

ये पाक्यन्ति धरणीं चरणैः पाञ्चकालिकाः ।
दर्शनात् स्पर्शनातेषां कृतार्थास्सर्वजन्तवः ।
इज्यामध्ये तथा होमे योगे च जपकर्मणि ।
आगतं पञ्चकालज्ञ सम्पूज्यैवार्चयेत्परम् ॥
ये तोषयन्त्यविरतं पञ्चकालपरायणान् ।
सकामास्तत्फलं यान्ति निष्कामाः परमं पदम् ।।
सदाहितामयो ये च शान्ताश्शूद्रान्नवर्जिताः ।
मामर्चयन्ति मद्भक्तास्तेभ्यो दत्तमिहाक्षयम् ।
द्वादशाक्षरतत्त्वज्ञश्चतुव्यूहविभागवित् ।
अच्छिद्रपञ्चकालज्ञम्स विप्रस्तारयिष्यति ' । इति

या : । द्वादशाक्षरतत्त्वज्ञ इति । द्वादशाक्षरतत्वानि । चिज्जीवः प्रकृतिर्बुद्धिर्मनस्सत्त्वादयो गुणाः । व्योमामिमरुतश्चापो वर्णानां तत्त्वमीरित 'मित्युक्तानि । चतुष्यूहविभागवित् इति पुरुषश्च ततस्सत्यमच्युतञ्च युधिष्ठिर । अनिरुद्धश्च मां प्राहुर्वेखानसविदो जनाः । अन्ये त्वेवं विजानन्ति मां राजन् पाश्चरात्रिकाः । वासुदेव राजेन्द्र सङ्कर्षणमथापि वा ।