पृष्ठम्:श्रीवेङ्कटेशाष्टोत्तरसहस्रनाम.pdf/34

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



श्रीवेङ्कटेशसहस्रनामस्तेोत्रम्


श्रीरस्तु श्री श्रीनिवासपरब्रह्मणे नमः
॥ श्रीयै श्रीपद्मावत्यै नम: ॥
॥ श्रीवेङ्कटेशसहस्रनामस्तेोत्रम् ॥

श्रीबसिष्ठ उवाच
भगवन् केन विधिना नामभिर्वेङ्कटेश्वरम् ।
पूजयामास तं देवं ब्रह्मा तु कमलैः शुभैः ॥ १

पृच्छामि तानि नामानि गुणयोगफ्राणि किम् ।
मुख्यवृत्तीनि किं त्रूहि लक्षकाण्यथवा हरेः ॥ २

नारद उवाच
नामान्यनन्तानि हरेः गुणयोगानि कानि चित् ।
मुख्यवृत्तीनि चान्यानि लक्षकाण्यपराणेि च ॥ ३
 
परमार्थैः सर्वशब्दैरेको ज्ञेयः परः पुमान् ।
अादिमध्यान्तरहितः त्वव्यक्तोऽनन्तरूपभृत् ॥ ४
 
चन्द्रार्कवहिवाय्वाद्या ग्रहक्षणि नभो दिशः ।
अन्वयव्यतिरेकाभ्यां सन्ति नो सन्ति यन्मतेः ॥ ५

तस्य देवस्य नाम्नां हि पारं गन्तुं हि कः क्षमः ।
तथाऽपि चाभिधानानि वेङ्कटेशस्य कानिचित् ॥ ६